Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 297
________________ *OPERASAARESSALO4OASGICAS नेच्छन्ति-न बहु मन्यन्ते, यच्चोतं-'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागात् शुभ एवाध्यवसाय' इत्यादि, तदपि यत्किश्चित् , व्यभिचारात्, कस्यचिदल्पसत्त्वस्य अविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते यशःकीाद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिः, शुभाध्यवसायभावे तु स एव भावस्तवः, इतरस्तु तत्कारणत्वेनाप्रधानमिति, तथा भावस्तव एव सति ६ तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तववतः सम्यगमरादिभिरपि पूज्यत्वात् , तमेव च दृष्ट्वा क्रियमाणमन्ये सुतरां प्रतिबुद्ध्यंते है इति स्वपरानुग्रहोऽपीहेवेति गाथाद्वयभावार्थः॥ आह-यद्येवं किमयं द्रव्यस्तव एकान्ततो हेय एव वर्तते !, आहोश्विदुपादेयोऽपीति !, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि, तथा चाहअकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो दवथओ कूवदिढतो॥१९६॥ (भा.) ___ अकृत्स्नं, संयममिति सामर्थ्यात् गम्यते, प्रवर्तयन्तीत्यकृत्स्नप्रवर्तकास्तेषां, विरताविरतानां श्रावकाणामेष-द्रव्यस्तवः खलु युक्त एव, खलुशब्दस्यावधारणार्थत्वात्, किंकृदयमित्याह-संसारपतनुकरणः, संसारक्षयकारक इति भावः, आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्तः १, उच्यते, अत्र कूपदृष्टान्तः, जहा नवनगराइसंनिवेसे केई पभूतजलाभावतो तण्हादिपरिगया तदपनोदार्थ कूपं खणंति, तेर्सि च जइवि तण्हाइया वहुंति मट्टियाकद्दमादीहि य मलिणिजंति8 तहावि तदुब्भवेणं चेव पाणीएणं तेसिं ते तिण्हाइया सो य मलो पुबगो य फिट्टइ, सेसकालं च ते तदन्ने य लोगा सुहभागिणो य भवन्ति, एवं दवत्थए जइवि असंजमो तहावि ततो चेव सा परिणामवुड्डी भवति जा असंजमोवजियं अन्नं च निरवसेसं खति, तम्हा विरताविरतेहिं एस दपत्थओ कायबो, सुभाणुबंधी पभूयतरनिजराफलो यत्ति, उक्तः स्तवः। ' हा नवनगराइसंनिवेसेस ति , तेसिं च जइवि त तहावि तदुभवेणं चेव पाणी Jain Education For Private Personel Use Only T wainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340