Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीआव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥५९० ॥
रपि, तथा चोक्तम्- " कत्थइ पुच्छर सीसो कहिं चऽपुट्ठा कहिंति आयरिया ||" इत्यादि, तत्र वित्तपरित्यागादिना द्रव्यस्तव एव ज्यायानित्यल्पबुद्धीनामाशङ्कासम्भवः, तद्व्युदासार्थं तदनुवादपुरस्सरमाहदत्थओं भावत्थओं दवथओ बहुगुणत्ति बुद्धि सिआ ।
अनि उणमइवयणमिणं छज्जीवहिअं जिणा बिंति ॥ १९४ ॥ (भा.) छज्जीवकायसंजम दथए सो विरुज्झई कसिणो । तो कसिणसंजम विऊ पुप्फाईअं न इच्छति ॥ १९५ ॥ (भा.) द्रव्यस्तवो भावस्तव इत्यनयोर्मध्ये द्रव्यस्तवो बहुगुणः - प्रभूतगुण इत्येवं बुद्धिः स्याद्, एवं चेन्मन्यसे इति भावः, तथाहि किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायः तीर्थस्य चोन्नतिकरणं, दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुद्ध्यन्ते इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षं चेतसि निधाय द्रव्यस्तवो बहुगुण इत्यस्यासारतारव्यापनायाह-अनिपुणमतिवचनमिदमिति, अनिपुणमतेर्वचनमिदं यत् द्रव्यस्तवो बहुगुण इति, किमित्यत आह- 'षड्जीवहितं' षण्णां - पृथिवीकायिकादीनां जीवानां हितं जिना:- तीर्थकृतो ब्रुवते ॥ किं षड्जीवहितमित्यत आह- षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः -सङ्घट्टनापरित्यागः षड्जीवकायसंयमः असौ हितं, यदि नामैवं ततः किमि - त्यत आह- 'द्रव्यस्तवें' पुष्पादिसमभ्यर्चनलक्षणे 'सः' षड्जीवकायसंयमः ' कृत्स्नः' सम्पूर्णो 'विरुध्यते' न सम्यक् सम्पद्यते, पुष्पादिसंलुञ्चनसङ्घट्टनादिना कृत्स्नसंयमव्याघातभावात् यतश्चैवं 'तो'ति तस्मात् कृत्स्नसंयमं प्रधानं विद्वांसः, ते तत्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थ, पुष्पादिकं द्रव्यस्तवं
Jain Education monal
For Private & Personal Use Only
| स्तवनिक्षेपः भावस्तवाधिक्यं च
॥५९० ॥
ainelibrary.org

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340