SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ अयं चेह तावत् पश्चास्तिकायात्मको गृह्यते, तस्य लोकस्य उद्योतकरणशीला उद्योतकरास्तान्, केवलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः उक्तं च- "दुर्गतिप्रसृतान् जन्तून्, यस्माद् धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म्म इति स्मृतः ॥ १||” तीर्यते संसारसागरोऽनेनेति तीर्थ, धर्म एव धर्म्मप्रधानं वा तीर्थ धर्म्मतीर्थं तत्करणशीला धर्म्मतीर्थकरास्तान्, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकार कर्म्मजेतृत्वाजिनास्तान्, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हतीत्यर्हन्तस्तान् अर्हतः कीर्त्तयिष्यामि - स्वनामभिः स्तोष्ये, चतुर्विंशतिः सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलं ज्ञानमेषां विद्यत इति केवलिनः तान् केवलिनः, इति पदार्थः, पदविग्रहोऽपि यानि समासभाञ्जि पदानि तेषु दर्शित एव । सम्प्रति चालनावसरः- तत्र सा तावत् तिष्ठतु, सूत्रस्पर्शनियुक्तिरेवोच्यते, स्वस्थानत्वात् उक्तं च- 'अक्खलियसंहियाई वक्खाणचउकए दरिसियंमि । सुत्तष्फासियनिज्जुत्तिवित्थरत्थो इमो होइ ॥ १ ॥” चालनामपि चात्रैव वक्ष्यामः, तत्र 'लोकस्योद्योतकरा' निति यदुक्तं तत्र लोकनिरूपणायाह नामंठवणादवि खित्ते काले भवे य भावे य । पज्जवलोगे य तहा अट्ठविहो लोगनिक्खेवो ॥ १०६९ ॥ नालोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोकः भावलोकः पर्यायलोकश्च, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः, व्यासार्थन्तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यलोकमभिधित्सुराह - जीवमजीवे रूवमरूवी सपएसमप्पएसे य । जाणाहि दवलोगं निश्च्चमनिच्चं च जं दवं ॥ १९७ ॥ (भा.) Jain Educatinational For Private & Personal Use Only www.jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy