________________
श्रीआव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥ ५९२ ॥
जीवाजीवावित्यत्रानुस्वारः प्राकृतत्वादलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्वौ भेदौ प्रत्येकं रूप्यरूपिभेदौ, तथा चाह - 'रूप्यरूपिण' इति, तत्रानादिकर्म्मसन्तानपरिगता रूपिणः, अरूपिणस्तु कर्म्मरहिताः सिद्धाः, अजीवास्तेऽरूपिणो धर्म्माधर्म्माकाशास्तिकायाः, रूपिणः परमाण्वादयः, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशावगन्तव्यौ, तथा चाह - 'सप्रदेशाप्रदेशा' विति, तत्र परमाणुव्यतिरेकेण सर्वेऽप्यस्तिकायाः सप्रदेशाः, परमाणवस्त्वप्रदेशाः, अथवा पुद्गलास्तिकायो द्रव्याद्यपेक्षया चिन्तनीयः, तद्यथा - द्रव्यतः परमाणुरप्रदेशः व्यणुकादयः सप्रदेशाः, | क्षेत्रत एकप्रदेशावगाढोऽप्रदेशः व्यादिप्रदेशावगाढाः सप्रदेशाः, कालत एकसमयस्थितिकोऽप्रदेशो व्यादिसमयस्थितिकाः सप्रदेशाः, भावत एकगुणकृष्णादिकोऽप्रदेशः द्विगुणकृष्णादिकाः सप्रदेशाः, इदमेव जीवाजीवनातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोकस्तं, अस्यैव शेषधम्र्मोपदर्शनायाह-नित्यानित्यं यद्द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चयः ॥ साम्प्रतं जीवाजीवयोर्नित्यतानित्यतामेवोपदर्शयति
इ १ सिद्धा २ भविआया ३ अभविअ ४ पुग्गल १ अणागयद्धा २ य । तीअद्ध ३ तिनि काया ४ जीवाजीवट्ठिई चउहा ॥ १९८ ॥ (भा.)
अस्या सामायिकाध्ययन इव व्याख्या कर्त्तव्या ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते
| आगासस्स पएसा उड्ढे य अहे अ तिरिअलोए अ! जाणाहि खित्तलोगं अनंत जिणदेसियं सम्मं ॥ १९९॥ (भा.) प्रकृष्टाः देशाः प्रदेशाः आकाशस्य प्रदेशान् ऊर्ध्व चेति ऊर्ध्वठोके अधश्चेति अधोलोके तिर्यग्लोके च जा
Jain Educationonal
For Private & Personal Use Only
लोकनिक्षेपः
॥ ५९२ ॥
jainelibrary.org