SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनं ॥ तदेवमुक्तं सामायिकाध्ययनम् , अधुना चतुर्विंशतिस्तवाध्ययनं प्रारभ्यते तन्त्राध्ययनोहेशसत्रारम्भेषु सर्वेष्वेव कारणाभिसम्बन्धों वक्तव्यावित्येष वृद्धप्रवादः, ततः प्रथमतः कारणमुच्यते, तच्चेदं-जात्यादिगणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुणा सूत्रतोऽयंतश्चावश्यकश्रुतस्कन्धः प्रदातव्यः, सचाध्ययनसमुदायरूपः, तथा चोक्तम्-'एत्तो एकेकं पुण अज्झयणं कित्तइस्सामिति, प्रथमं चाध्ययनं सामायिकं, तच्चोपदर्शितम, इदानीं द्विसीयं चतुर्विंशतिस्तवाध्ययनमारभ्यते, द्वितीयता चास्य द्वितीयावयषत्वात् , द्वितीयावयवत्वमप्यस्य सिद्धमाचार्योपदर्शिताधिकारगाथाप्रामाण्यात्, सा चेयम्-"सावजजोगविरई उकित्तण गुणवतो व पडिवत्ती। खलियस्स निंदणा वणतिगिच्छ गुणधारणा चेव ॥१॥" इयमत्र भावना-यथा किल युगपदशक्योपलम्भस्य पुरुषस्य दिहक्षोः क्रमेणांगान्यपदश्यन्ते, एवमत्राप्यावश्यकश्रुतस्कन्धस्य क्रमेण सामायिकादीन्यङ्गान्युपदश्येन्ते इति, इदमेव कारणमुद्देशसूत्रेष्वपि योजनीयं, एतदेव च सर्वाध्ययनेषु, न पुनर्भेदेन वक्ष्यामः, सम्प्रति सम्बन्ध उच्यते-इहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टं, इह तु तदुपदेष्ट्रणामहंतामुत्कीर्तनं प्रतिपाद्यते, अथवा सामायिकाध्ययने तदासेवनात् कर्मक्षय उक्तः, यत उकं निरुक्तिद्वारे-"सम्मबिंडी अमोहो सोही सब्भाव दंसणं बोही । अविवज्जओ मुदिहित्ति एवमाई निरुत्वाइं ॥१॥" मा. सू.९९४ Jain Education Intel For Private Personal Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy