Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चशब्दः खलूभयोग्रहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थः उक्षेपणीयवस्तुसमुच्चयार्थो वा, एव कारस्त्ववधारणार्थः, तस्य । चैवं व्यवहितं प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये, तथा अग्रहीतव्ये उपेक्षणीये च ज्ञात एव, नाज्ञातेऽर्थे ऐहिकामुमिके, तत्र ऐहिको ग्रहीतव्यः सवन्दनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षया अभ्युदयादिः, तस्मिन्नर्थे यतितव्यमेव, अनुस्वारलोपात् यतितव्यं, एवमनेन क्रमेण ऐहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणो यत्नः कार्य इत्यर्थः, इत्थं चैतदङ्गी-|| कर्तव्यं. सम्यक अज्ञाते प्रवर्त्तमानस्य फल विसंवाददर्शनात् , तथा चोक्तमन्यैरपि-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदार मता । मिथ्याज्ञानात प्रवृत्तस्य, फलासंवाददशेनात् ॥१॥" तथा आमुष्मिकफलप्राप्त्यार्थिनाऽपि ज्ञान एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्-"पढमं नाणं तओ दया, एवं चिट्ठइ सबसंजए । अन्नाणी किं काहिति? किंवा नाही यपावगं? ॥१॥" इतश्चैतदेवमङ्गीकत्तव्यं, यस्मात् तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियापि निमिडा. नया चागमः-"गीयत्थो य विहारो बीओ गीयत्थमीसितो भणितो । एत्तो तइयविहारो नाणुनातो जिणवरेहिं|
न खल्वन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यते इत्यभिप्रायः, एवं तावत् क्षायोपशमिकं ज्ञानमधि
माडीकत्य विशिष्टफलसाधकत्वं तस्यैव वेदितव्यं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्य Wamanोsपि न तावदपवर्गप्राप्तिरुपजायते यावजीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्न मिति, नमा मानव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं, 'इइ जो उवदेसो सो नओ नामति एवमुक्तन्यायेन
-Norton
Jain Educat
i onal
For Private & Personel Use Only
Majainelibrary.org

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340