Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 241
________________ संघाडणपरिसाडो जहन्नओ इक्कसमइयो होइ । उक्कोसं तित्तीसं सागरनामा उ समऊणा ॥१६८॥ (भा.) वैक्रियस्य सङ्घातसम्मिश्रः परिशाटः सङ्घातपरिशाटः उभयरूपः कालतः खलु जघन्य एकसामयिको भवति, तथाहियदा केनचिदौदारिकशरीरिणा उत्तरवैक्रियमारब्धं, स च तत्र प्रथमसमये सङ्घातं द्वितीयसमये तु सङ्घातपरिशाटोभयं कृत्वा | मियते तदा तस्यैकसामयिकः वैक्रियस्य सङ्घातपरिशाट इति, उत्कृष्टस्त्रयस्त्रिंशत् 'सागरनामानि' सागरोपमाणि समयोनानि, तानि चानुत्तरेष्वप्रतिष्ठाने वा सङ्घातसमयहीनान्यवसातव्यानि, उक्तं च-"उभयं जहन्न समओ सो पुण दुसमयविउबिअमयस्स । परमयराइं संघातसमयहीणाई तेत्तीसं ॥१॥” इदानीं वैक्रियमेवाधिकृत्य सङ्घाताद्यन्तरमभिधित्सुराह| सबग्गहोभयाणं साडस्स य अतरं विउबस्स । समयो अन्तमुहत्तं उक्कोसं रुक्खकालीअं॥१६९॥ (भा.) 18 वैक्रियस्य 'सर्वग्रहोभययोः' सातसंघातपरिशाटयोः शाटस्य च जघन्यमन्तरं-विरहकालो यथाक्रम समयं अन्तमुहूर्त च, किमुक्तं भवति ?-सातस्य सङ्घातपरिशाटस्य च समयः, शाटस्यान्तर्मुहूर्त च, सङ्घातस्यान्तरमेवं-औदारिकशरीरिणः समयमेकमुत्तरवैक्रियं कृत्वा मृतस्य द्वितीयसमये विग्रहेण-विग्रहतः तथा तृतीयसमये देवलोके समुत्पद्य वैक्रियसङ्घातं कुर्वतो वेदितव्यं, अत्र हि प्राक्तनवैक्रियसर्वसंघातस्य अग्रेतनोत्तरवैक्रियसङ्घातस्य च विग्रहसमयोऽन्तरमिति, अथवा औदारिकशरीरिणः समयद्वयमुत्तरवैक्रियं कृत्वा तृतीयसमये मृतस्य निर्विग्रहेण देवलोके समुत्पन्नस्य तस्मिन्नेव च तृतीये समये वैक्रियसनातं कुर्वतो ज्ञातव्यं, अत्र ह्येकः समयः सङ्घातपरिशाटयोरन्तरमिति, उक्तं च-"संघायंतरसमओ समयविउवियमयस्स तइयंमि । सो दिवि संघातयतो तइए व मयस्स तइयंमि ॥१॥” सङ्घातपरिशाटोभयस्य जध-प। Jain Education For Private & Personel Use Only 19 nelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340