________________
संघाडणपरिसाडो जहन्नओ इक्कसमइयो होइ । उक्कोसं तित्तीसं सागरनामा उ समऊणा ॥१६८॥ (भा.)
वैक्रियस्य सङ्घातसम्मिश्रः परिशाटः सङ्घातपरिशाटः उभयरूपः कालतः खलु जघन्य एकसामयिको भवति, तथाहियदा केनचिदौदारिकशरीरिणा उत्तरवैक्रियमारब्धं, स च तत्र प्रथमसमये सङ्घातं द्वितीयसमये तु सङ्घातपरिशाटोभयं कृत्वा | मियते तदा तस्यैकसामयिकः वैक्रियस्य सङ्घातपरिशाट इति, उत्कृष्टस्त्रयस्त्रिंशत् 'सागरनामानि' सागरोपमाणि समयोनानि, तानि चानुत्तरेष्वप्रतिष्ठाने वा सङ्घातसमयहीनान्यवसातव्यानि, उक्तं च-"उभयं जहन्न समओ सो पुण दुसमयविउबिअमयस्स । परमयराइं संघातसमयहीणाई तेत्तीसं ॥१॥” इदानीं वैक्रियमेवाधिकृत्य सङ्घाताद्यन्तरमभिधित्सुराह| सबग्गहोभयाणं साडस्स य अतरं विउबस्स । समयो अन्तमुहत्तं उक्कोसं रुक्खकालीअं॥१६९॥ (भा.) 18
वैक्रियस्य 'सर्वग्रहोभययोः' सातसंघातपरिशाटयोः शाटस्य च जघन्यमन्तरं-विरहकालो यथाक्रम समयं अन्तमुहूर्त च, किमुक्तं भवति ?-सातस्य सङ्घातपरिशाटस्य च समयः, शाटस्यान्तर्मुहूर्त च, सङ्घातस्यान्तरमेवं-औदारिकशरीरिणः समयमेकमुत्तरवैक्रियं कृत्वा मृतस्य द्वितीयसमये विग्रहेण-विग्रहतः तथा तृतीयसमये देवलोके समुत्पद्य वैक्रियसङ्घातं कुर्वतो वेदितव्यं, अत्र हि प्राक्तनवैक्रियसर्वसंघातस्य अग्रेतनोत्तरवैक्रियसङ्घातस्य च विग्रहसमयोऽन्तरमिति, अथवा औदारिकशरीरिणः समयद्वयमुत्तरवैक्रियं कृत्वा तृतीयसमये मृतस्य निर्विग्रहेण देवलोके समुत्पन्नस्य तस्मिन्नेव च तृतीये समये वैक्रियसनातं कुर्वतो ज्ञातव्यं, अत्र ह्येकः समयः सङ्घातपरिशाटयोरन्तरमिति, उक्तं च-"संघायंतरसमओ समयविउवियमयस्स तइयंमि । सो दिवि संघातयतो तइए व मयस्स तइयंमि ॥१॥” सङ्घातपरिशाटोभयस्य जध-प।
Jain Education
For Private & Personel Use Only
19
nelibrary.org