SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥५६३॥ Jain Education न्येनान्तरमेकसामयिकं, य औदारिकशरीरी वैक्रियलब्धिमान् उपकल्पितवैक्रियशरीरः परिपूर्णं तिर्यङ्मनुष्यवैक्रियशरीरस्थितिकालं यावत् सङ्घातपरिशाटौ विधाय मृतोऽविग्रहेण देवेषु समुत्पद्य प्रथमसमये वैक्रियशरीरसङ्घातः द्वितीयादिसमयेषु तु सङ्घातपरिशाटौ तस्यावाप्येते, उक्तं च- "उभयस्सवि चिरविउधियमतस्स देवेसऽविग्गहमयस्स । अंतरमेगो समयो नायबो समयकुसलेहिं ॥ १ ॥" इह 'चिरविउबियमयस्से' ति यदुक्तं तत् सङ्घातपरिशाटो भय व्यक्ती करणार्थं, अन्यथा तृतीयेऽपि समये मृतस्य यथोक्तमन्तरमवाप्यते इति । शाटस्य जघन्यमन्तर्मुहूर्त्त यदा कश्चिदौदारिकशरीरी वैक्रियलब्धिमान् कचित् प्रयोजने वैक्रियशरीरं कृत्वा सिद्धकार्यः पर्यन्ते तस्य सर्वशाटं विधाय पुनरौदारिकशरीरमाश्रयति, तत्र चान्तर्मुहूर्त्ते स्थित्वा पुनरप्युत्पन्नप्रयोजनो वैक्रियं करोति, तत्र चान्तर्मुहूर्त्त स्थित्वा पुनरप्यौदारिकमागच्छन् वैक्रियस्य शाटं करोति, तदा वैक्रियस्य शाटस्य शाटस्य चान्तरमौदारिकशरीरवैक्रियशरीरगतमन्तर्मुहूर्त्तद्वयं भवति, तच्च द्वयमपि बृहत्तरमेकमेवान्तमुहूर्त्त विवक्षितमतो जघन्यमन्तर्मुहूर्त्त प्रमाणमुक्तमिति, त्रयाणामपि चोत्कृष्टं 'वृक्षकालिकं' वृक्षकालेनानन्तेन निर्वृत्तं वृक्षकालिकं- अनन्तोत्सर्पिण्यवसप्पिणीमानं, तथाहि यदा कश्चित् जीवो वैक्रियशरीरस्य सङ्घातादित्रयं कृत्वा वनस्पतिषूत्पद्यते तत्र चानन्तकालमतिवाह्य तत उद्वृत्तः पुनरपि वैक्रियशरीरमासाद्य सङ्घातादित्रयं करोति तदा सङ्घातपरिशाटतदुभयरूपस्य त्रयस्याप्यनन्तोत्सर्पिण्यव सर्पिणीरूपो वनस्पतिकालोऽन्तरे भवतीति ॥ उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्य तां प्रतिपादयन्नाह आहारे संघाओ परिसाडो अ समयं समं होइ । उभयं जहन्नमुकोसयं च अंतोमुहुत्तं तु ॥ १७० ॥ (भा.) For Private & Personal Use Only संघातादिकरणानि ॥ ५६३ ॥ ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy