________________
| 'बन्धनमाभयाणं जहन्नमन्तामुलकातायन्तरमभिधातुकामस्थायित्वात् तस्य, उत्कृष्ट
त्कृष्टस्याप्येतावपरित्यागानन्तरमन्तय सझातशाटौ, अमीण अबद्धं पुग्गलपरिक्ष
GRASROROGARIAGE
'आहारक' इत्याहारकशरीरे 'सङ्घातः' प्राथमिको ग्रहः 'परिशाटश्च पर्यन्ते मोक्षश्च कालतः 'समयं कालविशेषमेकमधिकृत्य समं भवति, क्रियाविशेषणमेतत् , कालोऽपि समयमेकं सङ्घातोऽपि समयमेकमित्यर्थः, उभयं-सङ्घातपरिशाटोभयं गृह्यते, तत् जघन्यत उत्कर्षतश्चान्तर्मुहूर्त भवति, अन्तर्मुहूर्त्तकालावस्थायित्वात् तस्य, उकृष्टान्तर्मुहूर्त्तात् जघन्यं लघुतरं वेदितव्यं ॥ साम्प्रतमाहारकमेवाधिकृत्य सङ्घाताद्यन्तरमभिधातुकाम आह| बंधणसाडुभयाणं जहन्नमन्तोमुहुत्तमन्तरणं । उक्कोसेण अवद्धं पुग्गलपरिअह देसूणं ॥ १७१॥ (भा.) | | 'बन्धन'सङ्घातः, शाटः-शाट एव, उभयं सङ्घातशाटौ, अमीषां बन्धनशाटोभयानां जघन्यं-सर्वस्तोकमन्तरणं-विरहकालोऽन्तर्मुहूर्त, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भात् , उत्कर्षेणार्द्धपुद्गलपरावर्तों देशोनोऽन्तरं, सम्यग्दृष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वात् , एतच्च यश्चतुर्दशपूर्वधर आहारकशरीरं कृत्वा प्रमादात् प्रतिपतितो वनस्पत्यादिषु यथोक्तं कालं स्थित्वा पुनरपि चतुर्दशपूर्वधरत्वमवाप्याहारकशरीरं करोति तदपेक्षया द्रष्टव्यं ॥ उक्ता आहारकशरीरम|धिकृत्य सङ्घातादिवक्तव्यता, सम्प्रति तैजसकामणे अधिकृत्याहतेयाकम्माणं पुण संताणाऽणाइओन संघाओ। भवाण हुन्ज साडो सेलेसीचरिमसमयम्मि ॥ १७२ ॥ (भा.)
तैजसकार्मणयोः पुनद्धयोः शरीरयोः सन्तानानादितः कारणात् न सङ्घातो-न तत्प्रथमतया ग्रहणं, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां तु केषाञ्चित् शाटः, कदेत्यत आह-शैलेशीचरमसमये, स चैकसामयिक एव ॥ उभयं अणाइनिहणं संतं भवाण हुन्ज केसिंचि । अंतरमणाइभावा अचंतऽविओगओ नेसिं ॥१७३॥ (भा.) ।
RECERGRESTR-SCRESCRECRACHAR
G
Jain Education
For Private Personel Use Only
Painelibrary.org