________________
CARSANGACRORG
संसाराटव्यां, किंविशिष्टायामित्याह-मिथ्यात्वाज्ञानमोहितपथायां-मिथ्यात्वाज्ञानाम्यां मोहितः पन्था यस्यां सा तथा पावस्यां, यः कृतं देशकत्वं तानहतः प्रणिपतामि-नमस्करोमि ॥ तच्च देशकत्वं दृष्ट्वा ज्ञात्वा च सम्यक्पन्थानमासेव्य व कृतं, मया माह
सम्मइंसणदिवो नाणेण य तेहि सुट्ट उवलद्धो। चरणकरणेहिं पहतो नेवाणपहो जिणिदेहि ॥ ९१० ॥ सम्यग्दर्शनेन-अविपरीतेन दर्शनेन दृष्टो, ज्ञानेन च सुहु-यथावस्थितस्तैरर्हद्भिातः, चरणं च करणं च चरणकरणं, समाहारत्वादेकवचनं, तेन प्रहतः-आसेवितो निर्वाणमाग्र्गो जिनेन्द्रैः, तत्र चरणं-व्रतादि करणं-पिण्डविशुद्धयादिः, यथोक्तम्-"वय ५ समणधम्म १० संजम १७ वेयावच्चं १० च बंभगुत्तीतो ९नाणातितियं ३ तव २ कोहनिग्गहाई चरणमेयं ॥१॥ पिंडविसोही ४ समिती ६ भावण १२ पडिमा १२ य इंदियनिरोहो ५। पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ॥२॥" न केवलं प्रहत एव, किन्तु ते खल्वनेन पथा निर्वृतिपुरमेव प्राप्ताः॥ तथा चाह
सिद्धिवसहिमुवगया नेवाणसुहं च ते अणुप्पत्ता । सासयमबाबाहं पत्ता अयरामरं ठाणं ॥९११॥ सिद्धिवसति-मोक्षालयम् उपगताः-सामीप्येन कनेविगमलक्षणेन प्राप्ताः, अनेन एकेन्द्रियव्यवच्छेदमाह, केषाश्चित् है सुखदुःखरहिता एव तत्र तिष्ठन्तीति दर्शनं तत्राह-निर्वाणसुखं च ते अनुप्राप्ताः, निरतिशयसुखं प्राप्ता इत्यर्थः, ते च दर्शनपरिभवादिनेहागच्छन्तीति केषाश्चिद्दर्शनं तनिषेधार्थमाह-शाश्वतं-नित्यं अन्यावाध-व्यावाधारहितं अजरामरं-जरामरणरहितं स्थान प्राप्ताः ॥ सम्प्रति द्वितीयं द्वारं व्याचिख्यासुराह
Jain Education International
For Private & Personal use only
www.jainelibrary.org