Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ACCORRESS
इह यथासम्भवं द्रव्यकरणशब्दस्य व्युत्पत्तिः-द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणमिति, द्रव्यकरणं द्विधा-आगमतो नोआगमतश्च, आगमतः करणशब्दार्थज्ञाता तत्र चानुपयुक्तो, नोआगमतविधा-ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तमेदाद, स्त्रज्ञशरीरभन्यशरीरे प्रतीते, भव्यातिरिक्तं-शरीरभव्यशरीरव्यतिरिकं द्विषा-सन्नानोसन्नओ भवे करण'मिति, संज्ञाकरणं नोसंज्ञाकरणं च, तत्र संज्ञाकरणं कटकरणादि, आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिका अभिधीयते, अयमत्र भावार्थः-कटनिर्वतकमयोमयं चित्रसंस्थानं पाइलकादि तथा रूतपूणिकानिवर्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणम्, अन्वर्थोपपत्तेः संज्ञाविशिष्टं द्रव्यस्य करणं संज्ञाद्रव्यकरणं, आह-इदं नामकरणमेव पर्यायमात्रतः संज्ञाकरणम् , अतो न कश्चिद्विशेषः, तदयुक्तं, नामकरणमिहाभिधानमात्रं करणमित्यक्षरत्रयात्मकं परिगृह्यते, संज्ञाकरणं तु करणादिसंज्ञाविशिष्टं कटादेनिवर्तनाय करणं ततो महान् विशेषः, आह च भाष्यकारः-सन्नानामंति मई तन्नो नाम जमभिहाणं ॥ जं वा तदत्थविकले कीरइ दवं तु दवणपरिणामं । पेलुकरणादि न हि तं, तदत्थसुन्नं नवा सद्दो॥१॥ जइ न तदत्थविहीणं, तो किं दबकरणं जतो तेणं । दवं कीरइ सन्नाकरणतिय करणरूढीतो ॥२॥ आसाम| तृतीयगाथानामयं सङ्केपार्थः-ननु संज्ञा नामेत्यनर्थान्तरं, ततः संज्ञाकरणनामकरणयोर्न कश्चिद्विशेषः, तदेतन्न, यस्मात् करणमित्यक्षरत्रयात्मकमभिधानमात्र नाम, यद्वा तदर्थविकले वस्तुनि सङ्केतमात्रतः करणमिति नाम क्रियते तन्नामकरणं, संज्ञाकरणं तु पेलुकरणादिकं द्रव्यं तेन तेन पूणिकादिकृतिसाधकतमरूपेण यद् द्रविणं तत्र द्रवणपरिणाम, नहि तत् पेलुकरणादि तदर्थविहीनं, पूणिकादिकृतिसाधकतमपरिणामान्वितत्वात, नापि शब्द: करणमित्यक्षरत्रयात्मकं, ततो महान्
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312