Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वरREAK
न चातिरिक्वेण सूत्रेण चार्यः, उच्यते, साभिप्रायमिदमनुक्तस्याप्यर्थस्य सङ्ग्रहार्थ, तथाहि-सम्भावनेऽयमपिशब्दः, स चोभयमध्यस्थः एतत्सम्भावयति, यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यन्यं अनुज्ञापयंतमप्यन्यं नानुजानामीति, यथा वर्चमानकाले कुर्वन्तमप्यन्यं न समनुजानामि, एवमपिशब्दादतीते काले कृतवन्तमपि कारितवंतमपि अनुज्ञापितवंतमपि, तथाऽनागते काले करिष्यन्तमपि कारयिष्यन्तमपि अनुज्ञापयिष्यन्तमपीति त्रिकालमपि सङ्ग्रहो वेदितव्यः, इह न क्रियाकियावतोरेकान्तेनाभेद एव, ततो न केवला क्रिया सम्भवति इति ख्यापनार्थमन्यग्रहणं, अत्र बहु वक्तव्यं तनु नोच्यते,मा भूद् मुग्धमतिविनेयसम्मोह इति । किश्चित्तु सूत्रस्पर्शनियुक्तौ वक्ष्यामः। तदेवमिदमेतावत्सूत्रस्य व्याख्यातम् , इह तु 'सर्व सावधं योग प्रत्याख्यामी'त्यत्र प्रत्याख्यानं गृहस्थान साधूनपि प्रतीत्य भेदपरिणामतो निरूपयति, गुरवस्तु व्याचक्षते-तदिदमेतावत् सूत्रस्य व्याख्यातं, सम्पति 'त्रिविघं त्रिविधेनेत्येतदेव व्याचष्टे, तत्र त्रिविधं सावद्ययोग प्रत्याख्येयं कृत- कारितानुमतिभेदभिन्नं त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति, ततस्तद्भेदोपदर्शनार्थमाह
सीआलं भंगसयं तिविहं तिविहेण समिईगुत्तीहिं। सुत्तप्फासियनिजत्तिवित्थरस्थो गओ एवं ॥१०५७॥ | तत्राह-यद्येवमिह सर्वसावद्ययोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशदधिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यान-1 भेदत्वात् अयुक्तमेतदिति, अत्रोच्यते, प्रत्याख्यानसामान्यतो गृहस्थप्रत्याख्यानभेदाभिधानेऽप्यदोषात् , तत्र सप्तचत्वारिं-12 शदधिकं भेदशतं भाव्यते-सीयालं मंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयवं पयत्तेणं ॥१॥ इह योगविषये त्रयस्त्रिका-त्रयो द्विकाः त्रय एककाः, करणानि पुनर्योगेष्वथ एवं-त्रिोकं त्रिव्येक विद्यकं चेति, "तिन्नि |
Jain Education Inter
For Private & Personal use only
F
w.jainelibrary.org

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312