________________
वरREAK
न चातिरिक्वेण सूत्रेण चार्यः, उच्यते, साभिप्रायमिदमनुक्तस्याप्यर्थस्य सङ्ग्रहार्थ, तथाहि-सम्भावनेऽयमपिशब्दः, स चोभयमध्यस्थः एतत्सम्भावयति, यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यन्यं अनुज्ञापयंतमप्यन्यं नानुजानामीति, यथा वर्चमानकाले कुर्वन्तमप्यन्यं न समनुजानामि, एवमपिशब्दादतीते काले कृतवन्तमपि कारितवंतमपि अनुज्ञापितवंतमपि, तथाऽनागते काले करिष्यन्तमपि कारयिष्यन्तमपि अनुज्ञापयिष्यन्तमपीति त्रिकालमपि सङ्ग्रहो वेदितव्यः, इह न क्रियाकियावतोरेकान्तेनाभेद एव, ततो न केवला क्रिया सम्भवति इति ख्यापनार्थमन्यग्रहणं, अत्र बहु वक्तव्यं तनु नोच्यते,मा भूद् मुग्धमतिविनेयसम्मोह इति । किश्चित्तु सूत्रस्पर्शनियुक्तौ वक्ष्यामः। तदेवमिदमेतावत्सूत्रस्य व्याख्यातम् , इह तु 'सर्व सावधं योग प्रत्याख्यामी'त्यत्र प्रत्याख्यानं गृहस्थान साधूनपि प्रतीत्य भेदपरिणामतो निरूपयति, गुरवस्तु व्याचक्षते-तदिदमेतावत् सूत्रस्य व्याख्यातं, सम्पति 'त्रिविघं त्रिविधेनेत्येतदेव व्याचष्टे, तत्र त्रिविधं सावद्ययोग प्रत्याख्येयं कृत- कारितानुमतिभेदभिन्नं त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति, ततस्तद्भेदोपदर्शनार्थमाह
सीआलं भंगसयं तिविहं तिविहेण समिईगुत्तीहिं। सुत्तप्फासियनिजत्तिवित्थरस्थो गओ एवं ॥१०५७॥ | तत्राह-यद्येवमिह सर्वसावद्ययोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशदधिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यान-1 भेदत्वात् अयुक्तमेतदिति, अत्रोच्यते, प्रत्याख्यानसामान्यतो गृहस्थप्रत्याख्यानभेदाभिधानेऽप्यदोषात् , तत्र सप्तचत्वारिं-12 शदधिकं भेदशतं भाव्यते-सीयालं मंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयवं पयत्तेणं ॥१॥ इह योगविषये त्रयस्त्रिका-त्रयो द्विकाः त्रय एककाः, करणानि पुनर्योगेष्वथ एवं-त्रिोकं त्रिव्येक विद्यकं चेति, "तिन्नि |
Jain Education Inter
For Private & Personal use only
F
w.jainelibrary.org