Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीभाव मलयगि० वृत्तौ सूत्रस्पर्शिका
तीकरयोनिक्षेप
॥५९६॥
SASARAACARE
प्रवचनं भावंतीर्थ, अथवा येन कारणेनेत्थंभूतेषु विष्वर्थेषु नियुक्तमेतेन कारणेन प्रवचनं भावंतस्विस्थ, एष त्रिस्थलक्षणः तीर्थशब्दापेक्षया अन्यः पर्यायः॥ उक्तं तीर्थ, अधुना कर उच्यतेनामकरो ठवणकरो दबकरो खित्त-काल-भावकरो। एसो खलु करगस्स उ निक्खेवो छविहो होइ ॥१०८२॥
नामकरः स्थापनाकरः द्रव्यकरः 'क्षेत्रकालभावकरो' इति करशब्दः प्रत्येकमभिसम्बध्यते क्षेत्रकरः कालकरो भावकरश्च, एष खलु कर एव करकस्तस्य निक्षेपः षडियो भवति ॥ तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकरमभिनित्सुराह
गो-महिसु-हि-पसूर्ण छगलीणंपि अकरा मुणेअधा । तत्तो अतणपलाले भुसकटुंगारकरमेव ।। १०८३।। ा सीउंबरजंघाए बलिवद्दकरे घडे अचम्मे य । चुल्लगकरे अ भणिए अहारसमा कप्पत्ती ॥ १०८४॥ ही गोमहिषोष्ट्रपशूनां छगलीनामपि च करा ज्ञातव्याः, तत्र गोकरो गोयाचनं, यथा एतावती विक्रीतास्वेका गौतव्येति, यदिवा गोविक्रयस्य-रूपकयाचनं गोकरः १ एवं महिषकर, २ उष्ट्रकरः ३ पशुकरः ४ छगली-उरभ्रा तत्करः छगलीकरः ५ ततस्तृणविषयः करः तृणकरः ६ पलालकरः ७ तथा बुसकरः ८ काष्ठकरः ९ अङ्गारकरः १० शीता-लाङ्गलपद्धतिस्तामाश्रित्य करो-भागो धान्ययाचनं शीताकरः ११ उम्बरो-देहली तद्विषयः करो रूपकयाचनं उम्बरकरः १२, एवं जाकरः १३ बलीवईकरः १४. घटकरः १५ चर्मकरः १६ चुल्लगो-भोजनं तदेव करः चुलगकरः, स चायं ग्रामेषु पञ्चकुलादीनधिकृत्य प्रसिद्ध एव १७ अष्टादशा करस्योत्पत्तिः स्वकल्पनाशिल्पिनिर्मिता, पूर्वोक्तसप्तदशकरव्यतिरिक्तः स्वेच्छया कल्पितोऽष्टादशः करः, स त्वौत्पत्तिक इति प्रसिद्धः॥ उको द्रव्यकरः, सम्प्रति क्षेत्रकरादीनभिधित्सुराह
Jain Education in
For Private & Personal use only
Viraw.jainelibrary.org

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312