Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
करणे तथा । औपम्ये चाधिवासे च कल्पशब्दं विदुर्बुधाः ॥ १ ॥” लोकं पञ्चास्तिकायात्मकं जानन्ति विशेषरूपतया तथैव सम्पूर्णमेव, चशब्दस्यावधारणार्थत्वात् पश्यन्ति सामान्यरूपतया, इह ज्ञानदर्शनयोः सम्पूर्णलोकविषयत्वे बहु बक्तव्यं, | तत्तु नोच्यते, ग्रन्थविस्तरभयात्, केवलं 'निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते । विशिष्टग्रहणं ज्ञानमेवं सर्वत्रगं द्वय ॥ १ ॥ - मित्यनया दिशा स्वयमेवाभ्यूह्यं, धर्म्मसङ्ग्रहणीटीका व परिभावनीया, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यते इति केवलिनः इति व्युत्पत्तेः, अहोऽत्राकाण्ड एव केवलचारित्रिण इति किमर्थमुक्तं ?, उच्यते, केवलचारित्रप्रातिपूर्विका नियमतः केवलज्ञानावाप्तिरिति न्यायदर्शनार्थमित्यदोषः । तदेवं व्याख्यातो लोकस्येत्यादिरूपः सूत्रप्रथमश्लोकः ॥
साम्प्रतमत्रैव चालनाप्रत्यवस्थाने विशेषतो निदर्श्यते, तत्र लोकस्योद्योतकरानित्युक्तं, अत्राह - अशोभनमिदं यदुक्तंलोकस्येति, लोको हि चतुर्द्दशरज्वात्मकत्वेन परिमितः केवलोद्योतश्चापरिमितो, लोकालोकव्यापकत्वात्, यद्वक्ष्यति - 'केवलियनाणलंभो लोगालोगं पगासेइ' ततः सामान्यतः उद्योतकरान् यदिवा लोकालोकयोरुद्योतकरानिति वाच्यं, नतु लोकस्येति, तदयुक्तं, अभिप्रायापरिज्ञानात्, इह लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततः आकाशास्तिकायभेद एव लोक इति न पृथगुक्तः, न चेतदनार्ष, यत उक्तम्- "पंचत्थिकायमइओ लोगो' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्म्मतीर्थकरानिति न वक्तव्यं, गतार्थत्वात्, तथाहि - ये लोकस्योद्योतकरास्ते धर्म्मतीर्थकरा एवेति, उच्यते, इह लोकेकदेशे ग्रामैकदेशे ग्रामशब्दवत् लोकशब्दप्रवृत्तिदर्शनात् मा भूत्तदुद्योतकरेष्ववधिविभङ्गज्ञानिष्वर्कचन्द्रादिषु वा सम्प्रत्यय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312