Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीआव० मलयगि०
वृत्ती सूत्रस्पर्शिका
॥ ५८६ ॥
Jain Education Internallon
भावविउस्सग्गेसु उदाहरणं ॥ साम्प्रतं समाप्ती यथाभूतोऽस्य सामायिकस्य कत्ता भवति तथाभूतं सङ्क्षेपतोऽभिधित्सुराहसावज्जजोगविरओ तिविहं तिविहेण वोसरिअ पावो । सामाइअमाईए एसोऽणुगमो परिसमत्तो ॥ १०६४ ।। सावद्ययोगविरतः, कथमित्याह - त्रिविधंत्रिविधेन व्युत्सृज्य - परित्यज्य पापं, पाठांतरं सावद्ययोगविरतः सन् त्रिविधं त्रिविधेन व्युत्सृजति परित्यजति पापमेध्यत् सामायिकादौ - सामायिका रम्भसमये । एषोऽनुगमः परिसमाप्तः, अथवा सामायिकादी सूत्रे आदिशब्दात् सर्वसावधं योगं प्रत्याख्यामीत्याद्यवयवपरिग्रहः, उक्तोऽनुगमः, साम्प्रतं नयास्ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूदैवंभूतभेदभिन्नाः खल्बोघतः सप्त भवन्ति, स्वरूपं चैतेषामधो न्यक्षेण प्रदर्शितमिति नेह प्रतन्यते, केवलमत्र स्थानाशून्यार्थमेते ज्ञानक्रियाद्वयान्तर्भावेन समासतः प्रोच्यन्ते, तथा चाह
विवाचरणनए सेससमोआरणं तु काय । सामाइअनिजत्ती सुभासिअत्था परिसमत्ता ॥ १०६५ ॥ विद्याचरणनययोः, ज्ञानक्रियान्ययोरित्यर्थः, 'सेससमोयारणं तु काय मिति शेषनयसमवतारः कर्त्तव्यः, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि तौ च ज्ञाननयक्रियानयौ वक्तव्यौ, एवं सामायिकनिर्युक्तिः सुभाषितार्था परिसमाप्ता ॥
सम्प्रति स्वद्वार एव शेषनयान्तर्भावेनाविष्कृतनामानावनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतयाऽभिहितौ ज्ञान| चरणनयावुच्येते, तत्र ज्ञाननयदर्शनमिदं - ज्ञानमेवैहिकामुष्मिकफलप्राप्तिकारणं प्रधानं, युक्तियुक्तत्वात्, तथा चाह— नायम्मि गिहियचे अगिव्हिअवम्मि चेव अत्थम्मि । जइअवमेव इथ जो उवएसो सो णओ नाम ।। १०६६ ।। 'नामि' ज्ञाते सम्यकपरिच्छिन्ने 'ग्रहीतव्ये' उपादेये, 'अगिण्हियवंमि त्ति अग्रहीतव्ये - अनुपादेये, हेये इति भावः,
For Private & Personal Use Only
66
ज्ञानक्रियानयी
।। ५८६ ॥
w.jainelibrary.org

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312