________________
श्रीआव० मलयगि०
वृत्ती सूत्रस्पर्शिका
॥ ५८६ ॥
Jain Education Internallon
भावविउस्सग्गेसु उदाहरणं ॥ साम्प्रतं समाप्ती यथाभूतोऽस्य सामायिकस्य कत्ता भवति तथाभूतं सङ्क्षेपतोऽभिधित्सुराहसावज्जजोगविरओ तिविहं तिविहेण वोसरिअ पावो । सामाइअमाईए एसोऽणुगमो परिसमत्तो ॥ १०६४ ।। सावद्ययोगविरतः, कथमित्याह - त्रिविधंत्रिविधेन व्युत्सृज्य - परित्यज्य पापं, पाठांतरं सावद्ययोगविरतः सन् त्रिविधं त्रिविधेन व्युत्सृजति परित्यजति पापमेध्यत् सामायिकादौ - सामायिका रम्भसमये । एषोऽनुगमः परिसमाप्तः, अथवा सामायिकादी सूत्रे आदिशब्दात् सर्वसावधं योगं प्रत्याख्यामीत्याद्यवयवपरिग्रहः, उक्तोऽनुगमः, साम्प्रतं नयास्ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूदैवंभूतभेदभिन्नाः खल्बोघतः सप्त भवन्ति, स्वरूपं चैतेषामधो न्यक्षेण प्रदर्शितमिति नेह प्रतन्यते, केवलमत्र स्थानाशून्यार्थमेते ज्ञानक्रियाद्वयान्तर्भावेन समासतः प्रोच्यन्ते, तथा चाह
विवाचरणनए सेससमोआरणं तु काय । सामाइअनिजत्ती सुभासिअत्था परिसमत्ता ॥ १०६५ ॥ विद्याचरणनययोः, ज्ञानक्रियान्ययोरित्यर्थः, 'सेससमोयारणं तु काय मिति शेषनयसमवतारः कर्त्तव्यः, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि तौ च ज्ञाननयक्रियानयौ वक्तव्यौ, एवं सामायिकनिर्युक्तिः सुभाषितार्था परिसमाप्ता ॥
सम्प्रति स्वद्वार एव शेषनयान्तर्भावेनाविष्कृतनामानावनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतयाऽभिहितौ ज्ञान| चरणनयावुच्येते, तत्र ज्ञाननयदर्शनमिदं - ज्ञानमेवैहिकामुष्मिकफलप्राप्तिकारणं प्रधानं, युक्तियुक्तत्वात्, तथा चाह— नायम्मि गिहियचे अगिव्हिअवम्मि चेव अत्थम्मि । जइअवमेव इथ जो उवएसो सो णओ नाम ।। १०६६ ।। 'नामि' ज्ञाते सम्यकपरिच्छिन्ने 'ग्रहीतव्ये' उपादेये, 'अगिण्हियवंमि त्ति अग्रहीतव्ये - अनुपादेये, हेये इति भावः,
For Private & Personal Use Only
66
ज्ञानक्रियानयी
।। ५८६ ॥
w.jainelibrary.org