Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 294
________________ श्री आव ० मलयगि० वृत्त सूत्र स्पर्शिका ॥ ५९४ ॥ Jain Education inter शब्दा एकार्थिकाः, यत एवं लोकशब्दस्य व्युत्पत्तिः -लोक्यते इति लोकः, आलोकादयश्च पर्यायाः तेन कारणेन अष्टविधः खलु लोको लोक उच्यते ॥ व्याख्यातो लोकः, साम्प्रतं उद्योत उच्यते, अत्राह वह खलु उओ नायको दवभावसंजुत्तो । अग्गी दबुलोओ चंदो सूरो मणी विव ॥ १०७१ ॥ 'द्विविधो' द्विप्रकारः, खलुशब्दो मूलभेदापेक्षया न व्यक्त्यपेक्षयेतिविशेषणार्थः, उद्योत्यते - प्रकाश्यतेऽनेनेति उद्योतो ज्ञातव्यो विज्ञेयो द्रव्यभावसंयुक्तः, द्रव्योद्योतो भावोद्योतश्चेति भावः, तत्र द्रव्योद्योतोऽग्निश्चन्द्रः सूर्य मणिः - चन्द्रकान्तादिलक्षणो विद्युत् प्रतीता, एते द्रव्योद्योतः एतैर्घटादीनामुद्यतेऽपि तद्गतायाः सम्यक्प्रतिपत्तेरभावात् सकलवस्तुधर्मानुद्योतनाच्च, न ह्यभ्यादिभिः सदसन्नित्यानित्याद्यनन्तधर्मात्मकस्य वस्तुनः सर्व एव धर्म्माः धम्मस्तिकायादयो वा द्योत्यन्ते, तस्मादन्यादयो द्रव्योद्योत इति ॥ अधुना भावोद्योतमाह नाणं भावुजोओ जह भणियं सवभावदंसीहिं । तस्स उवओगकरणे भावुजोअं विआणाहि ॥ १०७२ ॥ ज्ञायते यथावस्थितं वस्त्वनेनेति ज्ञानं, ततो भावोद्योतः तेन घटादीनामुद्योतने तद्गतायाः सम्यक्प्रतिपत्तेर्निश्चयप्रतिपत्तेश्च भावात् तस्य तदात्मकत्वात्, एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तमत आह-यथा भणितं यथावस्थितं सर्वभावदर्शिभिः, तथा यत् ज्ञानं, सम्यग्ज्ञानमिति भावः, तदपि नाविशेषेणोद्योतः किन्तु ?, तस्य ज्ञानस्योपयोगे करणे सति भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुनो ज्ञातत्वसिद्धेः इति गाथार्थः ॥ इत्थमुद्योतस्वरूपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिना भवन्ति तेनैव युक्तानुपदर्शयन्नाह For Private & Personal Use Only उद्योतनिक्षेपः ।। ५९४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312