Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 281
________________ Jain Education International नयो नामं ति एवमुक्तेन न्यायेन य उपदेशः क्रियायाः प्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं चतुर्विधे सामायिके देशविरतिसर्वविरतिरूपं सामायिकद्वयमेवेच्छति, क्रियाप्रधानत्वादस्य, सम्यक्त्वसामायिक श्रुतसामायिके तु तदर्थमुपादीयमानत्वेनाप्रधानत्वान्नेच्छति, गुणभूते वा इच्छतीति, उक्तः क्रियानयः, इत्थं ज्ञाननयक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विधेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं १, पक्षद्वयेऽपि युक्तिसम्भवात्, आचार्यः पुनराह - सवेसिंपि नयाणं बहुविहवत्तच्वयं निसामित्ता । तं सवनयविसुद्धं जं चरणगुणट्ठिओ साहू ॥ १०६७ ॥ अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयति- 'सधेसिंपि नयाण' मित्यादि, सर्वेषामपि -मूलनयानां, अपिशब्दात् तद्भेदानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां - सामान्यमेव विशेषा एव उभयमेव परस्परमनपेक्षमित्यादिरूपं, अथवा नामादिनयानां मध्ये को नयः कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत् सर्वनयविशुद्धं सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः यस्मात्सर्वे नयास्तत्त्वतो भावनिक्षेपमिच्छंतीति ॥ इति श्रीमलयगिरिविरचितायामावश्यकटीकायां सामायिकाध्ययनं समाप्तम् ॥ सामायिकस्य विवृतिं कृत्वा यदवाप्तमिह मया कुशलम् । तेन खलु सर्वलोको लभतां सामायिकं परमम् ॥ १॥ यस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥ २ ॥ प्रन्थानं २२००० BRARARARARARARARAFARAKARADARARARAS इति श्रीमलयगिरिविरचितायामावश्यकबृहद्वृत्तौ सामायिकाध्ययनं समाप्तम् । BBAS ATABASE For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312