Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीमाव०
मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥ ५९१ ॥
Jain Education Inte
अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चानुयोगद्वारचिन्तायां न्यक्षेण निरूपित एवेति नेह प्रतन्यते । सम्प्रति सूत्रा| ठापक निष्पन्न निक्षेपावसरः, स च सूत्रे भवति, सूत्रं चानुगमे, स चानुगमो द्विधा - सूत्रानुगमो निर्युक्त्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा - निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शक नियुक्त्यनुगमश्च तत्र निक्षेपनिर्युक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यां समवगन्तव्यः, तद्यथा - 'उद्देसे निद्देसे य निग्गमे' इत्यादि, 'किं कइविहं कस्स कहि मित्यादि, सूत्रस्पर्शकनिक्षेपनिर्युक्तयनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, युगपच सूत्रादयो व्रजंति, तथा चोक्तम् - " सुत्तं सुत्ताणुगमो सुत्तालावयकतो अ निक्खेवो । सुत्तष्फासियनिज्जुत्ति नया य समगं तु वच्चंति ( विशे. २८०९) विषयविभागः पुनरयममीषां वेदितव्यो- “होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालाव गनासो नामाइन्नासविणियोगं ॥ १ ॥ सुत्तष्फासिय निज्जुत्तिनियोगो सेसओ पयत्यादी । पायं सो चिय नेगमनयाइमयगोयरो भणितो ॥ २ ॥ " ( विशे. २००९-१० ) अत्राक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने एव निरूपिता इति नेह वितन्यन्ते तत्र सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्
लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥ १ ॥ सूत्रं ) अस्य व्याख्या, तल्लक्षणं चेदं "संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या सूत्रस्य षड़िधा || १ ||” तत्रास्खलितपदोच्चारणं संहिता, सा च प्रतीता, अधुना पदानि - लोकस्य उद्योतकरान् धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिन इति । अधुना पदार्थः -लोक्यते प्रमाणेन दृश्यते इति लोकः,
For Private & Personal Use Only
द्रव्यस्तवे
कूप
ष्टान्तः
॥५९१ ॥
www.jainelibrary.org

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312