Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 279
________________ Jain Education Intern चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोर्ज्ञातत्वानुकर्षणार्थः उक्षेपणीयवस्तुसमुच्चयार्यो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितं प्रयोगो द्रष्टव्यः - ज्ञात एव ग्रहीतव्ये, तथा अग्रहीतव्ये उपेक्षणीये च ज्ञात एव, नाज्ञातेऽर्थे ऐहिकामुष्मिके, तत्र ऐहिको ग्रहीतव्यः खकन्दनादिः अग्रहीतव्यो विषशस्त्र कण्टकादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षया अभ्युदयादिः तस्मिन्नर्थे यतितव्यमेव, अनुस्वारलोपात् यतितव्यं, एवमनेन क्रमेण ऐहिकामुष्मिकफलप्रात्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणो यज्ञः कार्य इत्यर्थः इत्थं चैतदङ्गीकर्त्तव्यं, सम्यक् अज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात्, तथा चोकमन्यैरपि - “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा | मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥ १ ॥” तथा आमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञान एव यतितव्यं, | तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्- “पढमं नाणं तओ दया, एवं चिट्ठइ सबसंजए । अन्नाणी किं काहिति किंवा नाही छेयपावगं ? ॥ १ ॥ इतःञ्चैतदेवमङ्गीकर्त्तव्यं, यस्मात् तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रिया पि | निषिद्धा, तथा चागमः- “ गीयत्थो य विहारो बीओ गीयत्थमीसितो भणितो । एत्तो तइयविहारो नाणुन्नातो जिणवरे हिं ॥ १ ॥ " न खल्वन्धेनान्धः समाकृष्यमाणः सम्यकूपन्धानं प्रतिपद्यते इत्यभिप्रायः, एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव वेदितव्यं यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिरुपजायते यात्रजीवाजीवाद्य खिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माद् ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं, 'इइ जो उवदेसो सो नओ नामं ति एवमुक्तन्यायेन For Private & Personal Use Only +++ Jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312