Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 285
________________ कार्षापणादीनि मिश्राणि द्विपदादीन्येव कटकाद्यलङ्कृतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि, क्षेत्रप्रदेशा वा चतुर्विंशतिः क्षेत्रचतुर्विंशतिः, चतुर्विंशतिप्रदेशावगाढं वा द्रव्यं क्षेत्रचतुर्विंशतिः, कालश्चतुर्विंशतिश्चतुर्विंशतिः समयादयः, एतत्कालस्थिति वा द्रव्यं कालचतुर्विंशतिः, भावचतुर्विंशतिः चतुर्विंशतिर्भावसंयोगाः, चतुर्विंशतिगुणकृष्णादिद्रव्यं वा भावचतुर्विंशतिः, इह सचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इति गाथार्थः ॥ उक्ता चतुर्विंशतिः, अधुना स्तवनिक्षेपप्रतिपादनार्थमाह मंठवणादवि भावे य धयस्स होइ निक्खेवो । दवत्थओं पुप्फाई संतगुणकित्तणा भावे ॥ १९३ ॥ (भा.) 'नाम'ति नामस्तवः स्थापनास्तवः द्रव्यविषयो द्रव्यस्तवः 'भावे ये'ति भावविषयो भावस्तवः, इत्थं स्तवस्य निक्षेपोन्यासो भवति चतुष्प्रकार इति शेषः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तवभावस्तवस्वरूप माह-द्रव्यस्तवः पुष्पादिः, आदिशब्दात् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराचैवमाह, अन्यथा द्रव्यस्तवः पुष्पादिभिः समभ्यर्च्चनमिति द्रष्टव्यं तथा सद्गुणोत्कीर्त्तना भाव इति, सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासत्सु गुणेषूत्कीर्त्तनानिषेधमाह, करणे मृषावाददोषप्रसङ्गात्, सद्गुणानामुत्कीर्त्तना उत्-प्राबल्येन परया भक्त्या कीर्त्तना - संशब्दना यथा - 'प्रकाशितं यथैकेन त्वया सम्यक् जगत्रयम् । समग्रैरपि नो नाथ !, परतीर्थानि पैस्तथा ॥ १ ॥ विद्योतयति वा लोकं, यथैकोऽपि निशाकरः । समुद्गतः समग्रोऽपि, किं तथा तारकागणः ? || २ ||" इत्यादिलक्षणो भावे इति द्वारपरामर्शो, भावस्तव इत्यर्थः ॥ इह चालितप्रतिष्ठितोऽर्थः सम्यग्ज्ञानाय प्रभवतीति चालनां कदाचिद् विनेयः करोति, कदाचित्स्वयमेव गुरु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312