Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 272
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका यमेवेत्यतीतग्रहणमतिरिच्यते, तस्मात् प्रतिक्रमामीति शब्दस्यावश्यं कर्मणा भवितव्यं, तच्च भूतं सावधयोगं मुक्त्वा त्रिकालिनान्यत् कर्म भवितुमर्हतीत्यर्थात् तस्येत्यवयवावयविसम्बन्धलक्षणा षष्ठीति न कदाचिदर्थहानिः प्रतिपत्तिगुरुता चेति । कता पदआह-यदि पुनरुक्तादिभयादेवमभिधीयते तदा इदमपरमनर्थकं पदमिति दर्शयति चिन्ताच तिविहेणं तु न जुत्तं पडिवयविहिणा समाहि जेण। अत्थविगप्पणयाए गुणभावणयत्ति को दोसो?॥१०५९॥ _ 'त्रिविधं त्रिविधेने त्यत्र त्रिविधेनेति न युक्तं, किमित्यत आह-प्रतिपदविधिना समाहितं येन, यस्मादस्यार्थः प्रतिपदमभिहित एव, तद्यथा-मनसा वाचा कायेनेति, अत्रोच्यते-अर्थविकल्पनया गुणभावनयेति.को दोषः१, अर्थविकल्पना नामाभेदोपदर्शनं गुणभावना-गुणाभ्यासस्ताभ्यां हेतुभ्यामेवमभिधाने न कश्चिद्दोषः, इयमत्र भावना-एवं झुक्त सामान्यवि- शेषरूपत्वं सर्वस्याप्यर्थस्योपदर्शितं भवति, तथाहि-तिविहं तिविहेणेति सामान्यरूपता दर्शिता, मणेणं वायाए इत्यादिना तु विशेषरूपतेति, तथा एवमभिहिते यः सामायिक लक्षणो गुणस्तस्य पुनः पुनरभिधानात्मिका भावना भवति, गुणभावना च कर्मनिर्जरणहेतुरित्यदोषः, अन्यच्च-मनसा वाचा कायेनेत्यमिहिते प्रतिपदं न करोमि न कारयामि नानुजाना-ते. मीति 'यथासङ्ख्यमनुदेशः समाना मिति न्यायतो यथासज्यमनिष्टं मा प्रापदिति त्रिविधेनैकक(नेत्येव)मुच्यते, एवं त्रिविधमित्यत्राप्याक्षेपपरिहारौ स्वयमनुगन्तव्यौ, प्रायः समानगमत्वादिति कृतं प्रसङ्गेन । तस्य भदन्त ! प्रतिक्रमा- ॥५८३॥ मीत्यत्र भदन्तेति पूर्ववत् , इदं चामन्त्रणमतिचारनिवृत्तिक्रियाभिमुखः सन् तद्विशुख्यर्थ कुरुते, आह-ननु पूर्वमुक्तो यो भदन्तशब्दः स एवात्राप्यनुवर्तिप्यते, एवमर्थ ह्यादौ स प्रयुक्त इति, किमर्थमस्योपादानमिति !, उच्यते, अनु जाणहेतुरित्यदोषः, अन्यत्र न्यायतो यथासक्यमनिटात कृतं प्रसङ्गेन ACCIRCRACCIES REC + % - Jain Education in For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312