Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 271
________________ KESARKARCRA सियनित्तिवित्थरत्यो गतो एवंति, सूत्रस्पर्शकनियुक्तिविस्तरार्थो गत एवमुक्तेनेति ॥ सम्प्रति सूत्र एवातीतादित्रिविधकालग्रहणमुक्तमिति दर्शयन्नाह सामाइयं करेमि पचक्खामी पडिकमामित्ति। पच्चुप्पन्नमणागयअईअकालाण गहणं तु ॥१०५८॥ 'सामायिकं करोमि', तथा 'प्रत्याख्यामि सावद्ययोग मिति, तथा 'प्रतिक्रमामि प्राकृतात् सावद्ययोगात्', इदं हि यथासङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उकं च-"अतीतं निंदइ पडुप्पन्नं संवरेइ अणागयं पञ्चक्खाति", इति ॥ सम्पति तस्य भदन्त! प्रतिक्रमामीत्येतद् व्याख्यायते-'तस्ये त्यधिकृतो योगः सम्बध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो योगः कर्म, कर्माणि च द्वितीया विभक्तिरतस्तमित्यभिधेये किमर्थ तस्येत्यभिधीयते !, उच्यते, विशेषख्यापनार्थ, तथाहि-तस्ये'त्यत्रावयवावयविसम्बन्धे षष्ठी, ततोऽयमर्थः-योऽसौ योगस्त्रिकालविषयः तस्यातीतं सावद्यमशं प्रतिक्रमामि, न शेषं वर्तमानमनागतं वा, केचित् पुनरविभागज्ञा अविशिष्टमेव सामान्येन योग सम्बन्ध. यति, तन्न युक्तं, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणासम्भवात् , अतीतविषयस्यैव प्रतिक्रमणस्य तत्र तत्र सूत्रेऽभिधानात्, अथ मन्येथाः-अविशिष्टमपि योग सम्बध्य पुनर्विशेष्येऽवस्थापनीयस्तच्छब्दस्ततोन कश्चिद्दोषः, तदप्यसमीचीनं, एवं सति प्रतिपत्तिगुरुताप्रसक्तेः, पूर्व अविशेषेण योगस्य सम्बन्धः, तदनन्तरं पुनरेतच्छन्दस्य विशेषेऽवस्थापनमिति न ऋग्वी प्रतिपतिः, यद्येवं तर्हि 'अतीतं भंते ! पडिकमामि' इत्येतावदेव सुखप्रतिपत्तये कस्मान्न कृतं !, उच्यते, पुनरुकत्वदोषप्रसाद, वाहि-प्रतिक्रमणमे प्रायश्चित्समध्ये पठितं, तच्च प्रायश्चित्तमासेविते भवति, ततोऽर्थादतीतविष सरस्ट बा.स.१८ Jain Education Inter For Private & Personal Use Only Trjainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312