________________
KESARKARCRA
सियनित्तिवित्थरत्यो गतो एवंति, सूत्रस्पर्शकनियुक्तिविस्तरार्थो गत एवमुक्तेनेति ॥ सम्प्रति सूत्र एवातीतादित्रिविधकालग्रहणमुक्तमिति दर्शयन्नाह
सामाइयं करेमि पचक्खामी पडिकमामित्ति। पच्चुप्पन्नमणागयअईअकालाण गहणं तु ॥१०५८॥ 'सामायिकं करोमि', तथा 'प्रत्याख्यामि सावद्ययोग मिति, तथा 'प्रतिक्रमामि प्राकृतात् सावद्ययोगात्', इदं हि यथासङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उकं च-"अतीतं निंदइ पडुप्पन्नं संवरेइ अणागयं पञ्चक्खाति", इति ॥ सम्पति तस्य भदन्त! प्रतिक्रमामीत्येतद् व्याख्यायते-'तस्ये त्यधिकृतो योगः सम्बध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो योगः कर्म, कर्माणि च द्वितीया विभक्तिरतस्तमित्यभिधेये किमर्थ तस्येत्यभिधीयते !, उच्यते, विशेषख्यापनार्थ, तथाहि-तस्ये'त्यत्रावयवावयविसम्बन्धे षष्ठी, ततोऽयमर्थः-योऽसौ योगस्त्रिकालविषयः तस्यातीतं सावद्यमशं प्रतिक्रमामि, न शेषं वर्तमानमनागतं वा, केचित् पुनरविभागज्ञा अविशिष्टमेव सामान्येन योग सम्बन्ध. यति, तन्न युक्तं, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणासम्भवात् , अतीतविषयस्यैव प्रतिक्रमणस्य तत्र तत्र सूत्रेऽभिधानात्, अथ मन्येथाः-अविशिष्टमपि योग सम्बध्य पुनर्विशेष्येऽवस्थापनीयस्तच्छब्दस्ततोन कश्चिद्दोषः, तदप्यसमीचीनं, एवं सति प्रतिपत्तिगुरुताप्रसक्तेः, पूर्व अविशेषेण योगस्य सम्बन्धः, तदनन्तरं पुनरेतच्छन्दस्य विशेषेऽवस्थापनमिति न ऋग्वी प्रतिपतिः, यद्येवं तर्हि 'अतीतं भंते ! पडिकमामि' इत्येतावदेव सुखप्रतिपत्तये कस्मान्न कृतं !, उच्यते, पुनरुकत्वदोषप्रसाद, वाहि-प्रतिक्रमणमे प्रायश्चित्समध्ये पठितं, तच्च प्रायश्चित्तमासेविते भवति, ततोऽर्थादतीतविष
सरस्ट
बा.स.१८ Jain Education Inter
For Private & Personal Use Only
Trjainelibrary.org