Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
***
*
तथाहि-अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावः, तदन्यत्वात् , मिथ्यादृष्टेरिव, अनन्यत्वे तखोत्पत्चिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्गः, अनिष्टं चैतत् , तस्थानादिमत्त्वाभ्युपगमात्, एष आक्षेपः-पालना । इत्थं चालनामभिधाय साम्प्रतं प्रत्यवस्थानमाह
आया हु कारओ मे सामाइअ कम्म करणमाया य । परिणामे सह आया सामाइअमेव उ पसिद्धी॥१०४८॥ 21 इह ममात्मैव कारको मतः, तस्य स्वातन्येण प्रवृत्तेः, तथा सामायिक कम्म, तद्गुणत्वात्, करणमपि चोदे
शादिलक्षणं तद्पत्वादात्मैव, तथापि यथोक्तदोषाणामसम्भवः, कुत इत्याह-यस्मात् परिणामे सति आत्मा सामायिकं परिणमनं परिणामः-कथञ्चित् पूर्वरूपापरित्यागेनोत्तररूपापत्तिः, उक्कं च-"नार्थान्तरगमो यस्मात् , सर्वथैव न चागमः। परिणामः प्रमासिद्धः, इष्टश्च खलु पण्डितैः॥१॥" तस्मिन् परिणामे सति आत्मा सामायिकमुपपद्यते, तथाहि-परिणामे सति तस्यात्मनो नित्यानित्याद्यनेकरूपता, अन्यथा परिणामित्वायोगात्, सा च नित्यानित्याद्य नेकरूपता द्रव्यगुणपर्यायाणां भेदाभेदसिद्धौ, अन्यथा सकलव्यवहारोच्छेदप्रसङ्गात् , ततो नात्र कर्तृकर्मकरणानामेकान्तेन अन्यत्वं, तद्गुणत्वात्, न खलु गुणगुणिनोरेकान्तेन भेदः, तथा सति विप्रकृष्टगुणमात्रोपलब्धौ प्रतिनियतगुणिविषयसंशयायोगात्, तदन्येभ्योऽपि तस्य भेदाविशेषाद्, अथ च यदा कश्चिद्धरिततशाखाविसररन्ध्रोदरान्तरतः किमपि शुक्ल पश्यति तदा किमियं पताका किं वा बलाका ! इति दृश्यते प्रतिनियतगुणिविषयः संशयः, नाप्येकान्तेनानन्यत्वं, तद्गुणत्वादेव, नहि गुणगुणिनोरेकानानन्यत्वं, तगुणत्वादेव, नहि गुणगुणिनोरेकान्तेनाभेदोऽपि, तथा सति गुणग्रहणे सति गुणिविषयसंशयानुत्पचिरेब,
%25*
5E5
Jain Education International
For Private & Personal use only
Haiww.jainelibrary.org

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312