SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ *** * तथाहि-अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावः, तदन्यत्वात् , मिथ्यादृष्टेरिव, अनन्यत्वे तखोत्पत्चिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्गः, अनिष्टं चैतत् , तस्थानादिमत्त्वाभ्युपगमात्, एष आक्षेपः-पालना । इत्थं चालनामभिधाय साम्प्रतं प्रत्यवस्थानमाह आया हु कारओ मे सामाइअ कम्म करणमाया य । परिणामे सह आया सामाइअमेव उ पसिद्धी॥१०४८॥ 21 इह ममात्मैव कारको मतः, तस्य स्वातन्येण प्रवृत्तेः, तथा सामायिक कम्म, तद्गुणत्वात्, करणमपि चोदे शादिलक्षणं तद्पत्वादात्मैव, तथापि यथोक्तदोषाणामसम्भवः, कुत इत्याह-यस्मात् परिणामे सति आत्मा सामायिकं परिणमनं परिणामः-कथञ्चित् पूर्वरूपापरित्यागेनोत्तररूपापत्तिः, उक्कं च-"नार्थान्तरगमो यस्मात् , सर्वथैव न चागमः। परिणामः प्रमासिद्धः, इष्टश्च खलु पण्डितैः॥१॥" तस्मिन् परिणामे सति आत्मा सामायिकमुपपद्यते, तथाहि-परिणामे सति तस्यात्मनो नित्यानित्याद्यनेकरूपता, अन्यथा परिणामित्वायोगात्, सा च नित्यानित्याद्य नेकरूपता द्रव्यगुणपर्यायाणां भेदाभेदसिद्धौ, अन्यथा सकलव्यवहारोच्छेदप्रसङ्गात् , ततो नात्र कर्तृकर्मकरणानामेकान्तेन अन्यत्वं, तद्गुणत्वात्, न खलु गुणगुणिनोरेकान्तेन भेदः, तथा सति विप्रकृष्टगुणमात्रोपलब्धौ प्रतिनियतगुणिविषयसंशयायोगात्, तदन्येभ्योऽपि तस्य भेदाविशेषाद्, अथ च यदा कश्चिद्धरिततशाखाविसररन्ध्रोदरान्तरतः किमपि शुक्ल पश्यति तदा किमियं पताका किं वा बलाका ! इति दृश्यते प्रतिनियतगुणिविषयः संशयः, नाप्येकान्तेनानन्यत्वं, तद्गुणत्वादेव, नहि गुणगुणिनोरेकानानन्यत्वं, तगुणत्वादेव, नहि गुणगुणिनोरेकान्तेनाभेदोऽपि, तथा सति गुणग्रहणे सति गुणिविषयसंशयानुत्पचिरेब, %25* 5E5 Jain Education International For Private & Personal use only Haiww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy