Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 259
________________ मा. सू. ९७ Jain Education Intermelona भावसर्व च सप्तमं, एष गाथासमासार्थः, व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषमेदव्याख्यानार्थमाह दविए चउरो भंगा सवमसवे य दवदेसे य । आएस सवगामे नीसेसे सवगं दुविहं ।। १८६ ॥ (भा.) द्रव्ये-द्रव्यसर्वे चत्वारो भङ्गाः, तानेव सूचयति - 'सबमसवे य दव देसे य'त्ति इह अङ्गुल्यादिद्रव्यं यदा सर्वैरपि निजावयवैः परिपूर्ण विवक्ष्यते तदा सर्वमुच्यते, एवं तस्यैवाङ्गुल्यादिद्रव्यस्य कश्चित् स्वावयवो देशो निजावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा सोऽपि देशः सर्व एव उभयस्मिन् द्रव्ये तदेशे च सर्वत्वं एतदेवाङ्गुल्यादिद्रव्यं तद्देशो वा यथास्वमपरिपूर्णतया विवक्ष्यते तदा प्रत्येकमसर्वत्वं, ततो द्रव्ये देशे चैवं विवक्षिते चत्वारो भङ्गाः, तद्यथा- द्रव्यं सर्व देशोऽपि सर्वः १, द्रव्यं सर्वं देशोऽसर्वः २, देशः सर्वो द्रव्यमसर्व ३, देशोऽसवों द्रव्यमप्यसर्व ४, अत्र यथाक्रममुदाहरणम् - अंगुलिद्रव्यं संपूर्ण विवक्षितं द्रव्यसर्व, तदेव देशोनं विवक्षितं द्रव्यासर्व पर्व पुनः सम्पूर्ण विवक्षितं देशसवं, | पर्वैकदेशस्तु देशासर्व, तथा आदेश- उपचारः, स च बहुतरे प्रधाने वा देशेऽपि आदिश्येत, तत्र बहुतरे यथा विवक्षितं घृतममिवीक्ष्य बहुतरे भुक्ते स्तोकेऽवशेषे सर्वशब्दोपचारः क्रियते - सर्व घृतं भुक्तमिति, प्रधानेऽप्युपचारो यथा ग्रामप्रधानेषु नरेषु गतेषु सर्वो ग्रामो गतः, उक्तं च-' आदेसो उवयारो बहुतरगे वा पहाणतरगे वा । देसेऽवि जहा सबं भुतं सबो गतो गामो ॥ १ ॥” ( विशे. ३४८८ ) इति, तत्र प्रधानपक्षमधिकृत्याह - 'आदेस सबगामो' इति, आदेश सर्व सर्वो | 1 For Private & Personal Use Only wjainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312