________________
मा. सू. ९७
Jain Education Intermelona
भावसर्व च सप्तमं, एष गाथासमासार्थः, व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषमेदव्याख्यानार्थमाह
दविए चउरो भंगा सवमसवे य दवदेसे य । आएस सवगामे नीसेसे सवगं दुविहं ।। १८६ ॥ (भा.)
द्रव्ये-द्रव्यसर्वे चत्वारो भङ्गाः, तानेव सूचयति - 'सबमसवे य दव देसे य'त्ति इह अङ्गुल्यादिद्रव्यं यदा सर्वैरपि निजावयवैः परिपूर्ण विवक्ष्यते तदा सर्वमुच्यते, एवं तस्यैवाङ्गुल्यादिद्रव्यस्य कश्चित् स्वावयवो देशो निजावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा सोऽपि देशः सर्व एव उभयस्मिन् द्रव्ये तदेशे च सर्वत्वं एतदेवाङ्गुल्यादिद्रव्यं तद्देशो वा यथास्वमपरिपूर्णतया विवक्ष्यते तदा प्रत्येकमसर्वत्वं, ततो द्रव्ये देशे चैवं विवक्षिते चत्वारो भङ्गाः, तद्यथा- द्रव्यं सर्व देशोऽपि सर्वः १, द्रव्यं सर्वं देशोऽसर्वः २, देशः सर्वो द्रव्यमसर्व ३, देशोऽसवों द्रव्यमप्यसर्व ४, अत्र यथाक्रममुदाहरणम् - अंगुलिद्रव्यं संपूर्ण विवक्षितं द्रव्यसर्व, तदेव देशोनं विवक्षितं द्रव्यासर्व पर्व पुनः सम्पूर्ण विवक्षितं देशसवं, | पर्वैकदेशस्तु देशासर्व, तथा आदेश- उपचारः, स च बहुतरे प्रधाने वा देशेऽपि आदिश्येत, तत्र बहुतरे यथा विवक्षितं घृतममिवीक्ष्य बहुतरे भुक्ते स्तोकेऽवशेषे सर्वशब्दोपचारः क्रियते - सर्व घृतं भुक्तमिति, प्रधानेऽप्युपचारो यथा ग्रामप्रधानेषु नरेषु गतेषु सर्वो ग्रामो गतः, उक्तं च-' आदेसो उवयारो बहुतरगे वा पहाणतरगे वा । देसेऽवि जहा सबं भुतं सबो गतो गामो ॥ १ ॥” ( विशे. ३४८८ ) इति, तत्र प्रधानपक्षमधिकृत्याह - 'आदेस सबगामो' इति, आदेश सर्व सर्वो
|
1
For Private & Personal Use Only
wjainelibrary.org