Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीआव ० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥ ५७४ ॥
Jain Education Inte
मैत्री साम, साम्न आयो-लाभः सामायः स एव सामायिकं, अथवा सम्यकूशब्दार्थः समशब्दः, सम्य गयनं - वर्त्तनं समयः, अथवा सम्यगायो - लाभः समायः, यदिवा समस्य भावः साम्यं, तस्यायः साम्यायः, सर्वत्र स्वार्थिक इकण प्रत्ययः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, अथवा अन्यथा निरुक्तविधिः, तमुपदर्शयति
सामं समं च सम्मं इगमिति सामाइ अस्स एगट्ठा। नामं ठवणादविए भावम्मि य तस्स निक्खेवो ॥ १०४३ ॥
इह सामायिकशब्दः पदद्वयनिष्पन्नः, तत्र आद्यं पदं त्रिधा, तद्यथा-सामं समं च सम्यक्, इकमिति द्वितीयं पदं तच्च देशीपदं क्वापि प्रवेशार्थे प्रवर्चते, अत्र पदयोजनां स्वयमेवाग्रे वक्ष्यति, तथा सामायिकस्य एकार्थिकानि वक्तव्यानि । सम्प्रति सामादिशब्दानां निक्षेपप्रदर्शनायाह- 'नामे' त्यादि, तेषां सामप्रभृतीनां शब्दानां निक्षेपः कर्त्तव्यः, तद्यथा - 'नामस्थापने द्रव्ये भावे च' इयमत्र भावना - चतुर्विधं साम, तद्यथा - नामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यकूपदयोरपि भावनीयं ॥ तत्र नामस्थापने प्रतीते, द्रव्यसामप्रभृतीन् प्रतिपादयति
-महुरपरिणाम सामं समं तुला सम्म खीरखंडजुई । दोरे हारस्स चिई इगमेयाई तु दबंमि ॥ १०४४ ॥
ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसाम मधुरपरिणामं शर्करादिद्रव्यं, द्रव्यसमं सद्भूतार्थालोचनया तुलाद्रव्यं, द्रव्यसम्यक् श्रीरखंडयुतिः- धीरखण्डयोजनं, इकमपि चतुर्द्धा, तद्यथा-नामेकं स्थापनेकं द्रव्येकं भावेकं च, तत्र नामस्थापने प्रतीते, द्रव्येकं दोरे इति सूत्रदवरके मौक्तिकान्यधिकृत्य भाविपर्यायापेक्षया हारस्य - मुक्ताफलकलापस्य चितिः- चयनं
For Private & Personal Use Only
सामादी
न्येकार्यि
कानि
।। ५७४॥
w.jainelibrary.org

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312