SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीआव ० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥ ५७४ ॥ Jain Education Inte मैत्री साम, साम्न आयो-लाभः सामायः स एव सामायिकं, अथवा सम्यकूशब्दार्थः समशब्दः, सम्य गयनं - वर्त्तनं समयः, अथवा सम्यगायो - लाभः समायः, यदिवा समस्य भावः साम्यं, तस्यायः साम्यायः, सर्वत्र स्वार्थिक इकण प्रत्ययः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, अथवा अन्यथा निरुक्तविधिः, तमुपदर्शयति सामं समं च सम्मं इगमिति सामाइ अस्स एगट्ठा। नामं ठवणादविए भावम्मि य तस्स निक्खेवो ॥ १०४३ ॥ इह सामायिकशब्दः पदद्वयनिष्पन्नः, तत्र आद्यं पदं त्रिधा, तद्यथा-सामं समं च सम्यक्, इकमिति द्वितीयं पदं तच्च देशीपदं क्वापि प्रवेशार्थे प्रवर्चते, अत्र पदयोजनां स्वयमेवाग्रे वक्ष्यति, तथा सामायिकस्य एकार्थिकानि वक्तव्यानि । सम्प्रति सामादिशब्दानां निक्षेपप्रदर्शनायाह- 'नामे' त्यादि, तेषां सामप्रभृतीनां शब्दानां निक्षेपः कर्त्तव्यः, तद्यथा - 'नामस्थापने द्रव्ये भावे च' इयमत्र भावना - चतुर्विधं साम, तद्यथा - नामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यकूपदयोरपि भावनीयं ॥ तत्र नामस्थापने प्रतीते, द्रव्यसामप्रभृतीन् प्रतिपादयति -महुरपरिणाम सामं समं तुला सम्म खीरखंडजुई । दोरे हारस्स चिई इगमेयाई तु दबंमि ॥ १०४४ ॥ ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसाम मधुरपरिणामं शर्करादिद्रव्यं, द्रव्यसमं सद्भूतार्थालोचनया तुलाद्रव्यं, द्रव्यसम्यक् श्रीरखंडयुतिः- धीरखण्डयोजनं, इकमपि चतुर्द्धा, तद्यथा-नामेकं स्थापनेकं द्रव्येकं भावेकं च, तत्र नामस्थापने प्रतीते, द्रव्येकं दोरे इति सूत्रदवरके मौक्तिकान्यधिकृत्य भाविपर्यायापेक्षया हारस्य - मुक्ताफलकलापस्य चितिः- चयनं For Private & Personal Use Only सामादी न्येकार्यि कानि ।। ५७४॥ w.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy