________________
FREKARSARKAKASH
ततः अर्थपौरुषी हापयन्ति, ततः सूत्रपौरुषीमपि, कालमपि, तथा चरमं कायोत्सर्ग द्वितीयमाचं यावत्तिष्ठत्यपि सहस्ररश्मी तत्र यान्ती"ति, तथेदमपि ज्ञापयति-सर्वाणि कार्याणि गुरूनापृच्छय कर्तव्यानि, नान्यथा, सामायिकप्रतिपत्तेरपि गुर्वाम-ITI त्रणपूर्वकत्वात् , उक्तं च-"आवस्सयपि निच्चं गुरुपामूलंमि देसियं होइ । वीसुपि संवसंता कारणतो जइवि सेजाए ॥१॥ एवं चिय सबावस्सयाई आपुच्छिऊण कज्जाई । जाणावियमामंतणवयणातो जेण सबेसि ॥२॥ सामाइयमादि में मयं भदंतसहो य जंतदादीए । तेणाणुवत्तइ ततो करेमि भन्तेत्ति सबेसु ॥३॥ (विशे. ३४६१-२-३) अथ किमिति गुरूनापृच्छ्यैव सर्वाणि कार्याणि कर्तव्यानीति चेत् , उच्यते, इह परमार्थतः कृत्यमकृत्यं वा गुरवो जानते, विनयप्रतिपत्तिश्च शिष्येण कृता भवति, भगवदाज्ञा चाराधिता स्यात्, तथाहि-भगवतामियमाज्ञा-उच्छासादि प्रमुच्य शेषं गुर्वनापृच्छया न किमपि कर्त्तव्यमिति, उक्तं च-"किच्चाकिच्चं गुरवो विदंति विणयपडिवत्तिहेउंति । उस्सासाइ पमोत्तुं तदणा
पुच्छाए पडिसिद्धं ॥१॥” (विशे. ३४६४ ) अथ यत्र गुरुर्न भवति तत्र कथं कर्त्तव्यमिति चेत्, प्रतिसमाहितमत्र द *भाष्यकारेण-"गुरुविरहंमि य ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहमिव जिणविंब सेवणामंतणं सफलं ॥१॥ रनो
व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्सवि गुरुणो सेवा विणयहेउं ॥२॥" (विशे. ३४६५-६) इति कृतं विस्तरेण ॥ सम्पति सामायिकं व्याख्येयं, अथ सामायिकमिति कः शब्दार्थः', उच्यते-समो रागद्वेषरहितः, अयनं गमनं, समस्यायः समायः, अयनग्रहणं शेषक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां समस्य सतस्तत्त्वतो भावाद, समाय एव सामायिक, अथवा समानि-ज्ञानदर्शनचारित्राणि तेष्वयनं समायः स एव सामायिकं, यदिवा सर्वजीवेषु ४
AARCASRAECSC
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org