________________
श्रीभाव० मलयगि●
वृत्तौ सूत्रस्पर्शिका
॥ ५७३ ॥
न्तश्च तत्र नामस्थापने प्रतीते, द्रव्यान्तो घटाद्यन्तः, क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्राः तः, कालान्तः समयाद्यन्तो, भावान्तो औदयिकादिभावान्तः ॥
एवं सबंमिवि वन्नियंमि एत्थं तु होइ अहिगारो । सत्तभयविष्यमुळे तहा भवते भयंते य ॥ १८५ ॥ (भा.) एवम् उक्तेन प्रकारेण सर्वस्मिन्ननेकभेदभिन्ने भयादौ वर्णिते सति अत्र प्रकृते भवत्यधिकारः सप्तभयविप्रमुक्तो यस्तेन, | तथा यो भवान्तो यश्च भदन्तस्ताभ्यामिति पश्चानुपूर्व्या ग्रन्थ इत्यदोषः ॥ व्याख्यातं मूलद्वारगाथायां (भयान्तेति) द्वारद्वयं, तद्द्व्याख्यानाच्च भदन्त भवान्त भयान्त इति गुर्वामन्त्रणार्यः सूत्रावयवः, अथ सामायिकस्यादावेव गुरोरामन्त्रणवचः किमर्थं १, उच्यते, गुरुकुलवासोपसंग्रहार्थं, यथा सर्वदैव हि शिष्यो गुणार्थी सन् गुरुकुलवासी भवेत्, गुरुकुलवासे वसतां प्रतिक्षणं ज्ञानादिगुणोत्सर्पणात् उक्तं च भाष्यकृता - आमंतेइ करेमी भंते ! सामाइयंति सीसो य । आहामंतणवयणं गुरुणो किं कारणमियंति ? ॥ १ ॥ भन्नइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थी हि । निचं गुरुकुलवासी हवेज्ज सीसो जतोऽभिहियं ॥ २ ॥ नाणस्स होइ भागी थिरयर तो दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ ३ ॥ ( विशे. ३४५७-८ - ९ ) अन्यच्च - सामायिकस्यादौ गुर्वामन्त्रणवचनमभिदधान एवं ज्ञापयति-सर्वकालं | प्रतिक्रमणं गुरुपादमूले कर्त्तव्यं, वसत्यन्तरेऽपि पृथक् कारणवशतः स वस्तुकामो गुरुपादमूले प्रतिक्रम्य वसति, तथा च कल्पाध्ययनोक्ता एवं सामाचारी - "यदि लघ्वी वसतिः ततोऽन्यत्र कतिपये साधवः संवस्तुकामा आचार्यसमीपे | प्रतिक्रम्य प्रादोषिककालग्रहणोत्तरकालं सूत्रपौरुषीमर्थपौरुषीं च कृत्वा अन्यस्यां वसतौ गच्छन्ति, अथान्तरा श्वापदादिभयं
Jain Education International
For Private & Personal Use Only
आमंत्रणप्रयोजनं
॥ ५७३ ॥
w.jainelibrary.org