Book Title: Anusandhan 2013 09 SrNo 62
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
ओगस्ट - २०१३
५भूभृत्कोटियुतो न भूभृदयुतेनाऽसौ ततो जीयते यत्स्थाऽनन्तरमा महाम्बुजसमा किं स्यात् सदा सत्तमा । यन्मध्यं न शतेन कोऽपि लभते दत्तेन वित्तेन वा तं श्रीमण्डपदुर्गमिच्छति न को गन्तुं धनप्राप्तये ? ॥५॥ यत्र स्यादजितः स्वामी, तथाऽजितबलान्वितः । लघुशत्रुञ्जयेत्याख्या, तस्य स्थानस्य तूचिता ॥६॥ 'विश्वोद्भवा कीर्तिवल्ली, सुवंशान् प्राप्य 'चोर्ध्वगा । मण्डपे यत् स्थिता भाति, तद्युक्तं गुणशालिनि ॥७॥ १ चित्रं सङ्ग्रामगोत्रोत्था, ११व्यक्तं सदसि मार्गणैः । मिलिता फलिता जाता, विश्वव्यापिन्यसौ च यत् ।।८।। १२दानं श्रीनरदेवमेवमवदद् देवांशिनो ये पुराऽभूवन् भूरि १२नराः कुदानवदरात् ते स्वर्गलोकं गताः । तेनाऽऽधारविवर्जितं समभवं तस्याऽतिहर्ता भवांस्तस्मादुद्धर मां यतस्त्वमसि भो ! प्रत्यक्षदेवोऽधुना ॥९॥ "तच्छ्रुत्वा स जगौ सगौरवमदो भूयात् परं प्रौढतां नीतं त्वं किल यासि तं तु तदवग् वंशेऽपि तेऽहं स्थिरम् । नोक्तं मे यदि मन्यसे तव मतं शीलं तदा साक्षि सत् तद्वाक्यात् स्वगृहे निवासितमिदं द्वेधाऽपि लक्ष्मीप्रदम् ॥१०॥ १५सोऽथ स्वार्थकृते तदर्थ निवहे प्रौढं ददात्यन्वहं शीलं रक्षति किन्त्वदः प्रतिभुवं तस्माच्च तेषां गृहे । १७नो तिष्ठेत् पुनरेति १“चाऽस्य निलये वाणीनिबद्धं सदा येनाऽद्याऽपि तदन्वये गतभये सन्दृश्यते तद्वयम् ॥११॥ त्रिभिर्विशेषकम् ॥
५. मु. प्रश. श्लो. ५८ ७. 'जेतुं' इति मु. प्रश. । ९. 'वृद्धिभाग्' इति मु. प्रश. । ११. 'शीघ्रम्' इति मु. प्रश. । १३. 'तराः' इति मु. प्रश. । १५. मु. प्रश. श्लो. ६८ १७. 'तत्तिष्ठेत्' इति मु. प्रश. ।
६. 'समाब्जचरमा' इति मु. प्रश. । ८. मु. प्रश. श्लो. ७२ १०. मु. प्रश. श्लो. ७३ १२. मु. प्रश. श्लो. ६६ १४. मु. प्रश. श्लो. ६७ १६. 'ततये' इति मु.प्रश. । १८. 'चाऽस्य' इति मु. प्रश. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138