Book Title: Anusandhan 2013 09 SrNo 62
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२८
भुवो निर्मलं द्युश्चन्द्रो द्योतते ।
निश्चयेऽवश्यम् ।
अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः ।
तूष्णीं मौने ।
तूष्णीं कुरु । सु पूजने ।
सुनासीर: ।
पृथग्विनाऽन्तरेणते॑ ऽन्यत्र नानाऽन्तराहिरुक् ।
बहिर्विकारं पृथग् विदुः, विना धर्म्यं कुतः सुखम्, तथाऽन्तरेणर्ते पतितान्न बिभृदन्यत्र मातु:, नाना नारीर्निष्फला लोकयात्रा, त्वामन्तरा तामरसायताक्षि !, हिरुक् कर्मणो मोक्षः, कर्म्मक्षये मोक्ष इत्यर्थः ।
रहस्युपांशु | उपांशु मन्त्रं जपति ।
मध्येऽन्तरन्तरेणाऽन्तरान्तरे ।
अन्तर्वनस्य, अन्तरेण त्वां च मां च कमण्डलुः, तथाऽन्तरा, आवयोरन्तरे जाताः पर्वताः सरितो द्रुमाः ।
परितः सर्वतो विष्वक् समन्ताच्च समन्ततः ।
परितः पतन्ति दुष्कृतां विपदः, सर्वतः संपदः सताम्, विष्वग् धावन्ति, एवमन्यौ च ।
दीर्घकाले मिनायात्स्यरात्रायेति चिरात् पराः ।
अनुसन्धान-६२
चिरं जीव, चिरेणाऽऽगतः, चिराय निर्द्धनो भूत्वा भवत्यह्ना महाधनः, कस्माच्चिराद् दृश्यसे, चिरस्य दृष्टोऽसि, चिररात्राय जनेन चिन्तितम् ।
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ।
कान्ता मुहुर्ध्यायति, पुन: पुनर्वारि पिबेदभूरि, शश्वदुक्ति कुशिक्षितः, अभीक्ष्णमास्फालयतीव कुम्भम्, असकृद् वक्ति ।
स्स्राग् द्राक् ताजग् झगित्याशु झटित्यह्नाय मंक्ष्वरं तरसाऽवद्रुते । स्राक् सरन्त्यभिसारिका: द्राग् विद्रुतं कातरैः, ताजक् पचति झगिति पलायते, आशु गच्छति, आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः, अह्नाय सा नियमजं क्लममुत्ससर्ज्ज, मक्षूदपाति परित: पटलैरलीनाम्, अरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138