SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २८ भुवो निर्मलं द्युश्चन्द्रो द्योतते । निश्चयेऽवश्यम् । अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः । तूष्णीं मौने । तूष्णीं कुरु । सु पूजने । सुनासीर: । पृथग्विनाऽन्तरेणते॑ ऽन्यत्र नानाऽन्तराहिरुक् । बहिर्विकारं पृथग् विदुः, विना धर्म्यं कुतः सुखम्, तथाऽन्तरेणर्ते पतितान्न बिभृदन्यत्र मातु:, नाना नारीर्निष्फला लोकयात्रा, त्वामन्तरा तामरसायताक्षि !, हिरुक् कर्मणो मोक्षः, कर्म्मक्षये मोक्ष इत्यर्थः । रहस्युपांशु | उपांशु मन्त्रं जपति । मध्येऽन्तरन्तरेणाऽन्तरान्तरे । अन्तर्वनस्य, अन्तरेण त्वां च मां च कमण्डलुः, तथाऽन्तरा, आवयोरन्तरे जाताः पर्वताः सरितो द्रुमाः । परितः सर्वतो विष्वक् समन्ताच्च समन्ततः । परितः पतन्ति दुष्कृतां विपदः, सर्वतः संपदः सताम्, विष्वग् धावन्ति, एवमन्यौ च । दीर्घकाले मिनायात्स्यरात्रायेति चिरात् पराः । अनुसन्धान-६२ चिरं जीव, चिरेणाऽऽगतः, चिराय निर्द्धनो भूत्वा भवत्यह्ना महाधनः, कस्माच्चिराद् दृश्यसे, चिरस्य दृष्टोऽसि, चिररात्राय जनेन चिन्तितम् । मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः । कान्ता मुहुर्ध्यायति, पुन: पुनर्वारि पिबेदभूरि, शश्वदुक्ति कुशिक्षितः, अभीक्ष्णमास्फालयतीव कुम्भम्, असकृद् वक्ति । स्स्राग् द्राक् ताजग् झगित्याशु झटित्यह्नाय मंक्ष्वरं तरसाऽवद्रुते । स्राक् सरन्त्यभिसारिका: द्राग् विद्रुतं कातरैः, ताजक् पचति झगिति पलायते, आशु गच्छति, आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः, अह्नाय सा नियमजं क्लममुत्ससर्ज्ज, मक्षूदपाति परित: पटलैरलीनाम्, अरं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy