________________
ओगस्ट - २०१३
पठति, तरसा पठति ।
कालभूयस्त्वे ज्योक् । ज्योग् जीवन्ति धार्मिकाः । नमो नतौ । नमो जिनाय । बलवत्किमुताऽतीवसुष्ठ स्वति च निर्भरे निप्रात् कामम् । बलवत् पिपासितोऽस्मि, किमुत शोभते, तथाऽन्यौ च, सुसिक्त आम्रः फलति, अतिसिक्तः, निकामं क्षामाङ्गी, प्रकामं क्षामाङ्गी । अथो दुष्ठ निन्दायाम् । दुष्ठुवादी खलः । अद्रुते शनैः । शनैयान्ति पिपीलिका[:] । आनुषगनुपूर्व्याम् । आनुषक् प्रविशति बन्धुता । धु-दिवाऽह्नि । शोभनं धु, दिवाऽधीते । अस्तमदर्शने । अस्तं गतः सूर्यः, अस्तं गतानि दुःखानि । सायं साये । सायन्तनो वायुः । तथा प्रगे प्रातः प्रभाते । निकषाऽन्तिके । निकषा ग्रामं वसति । ह्यो गतेऽनागतेऽह्नि श्वः । ह्योऽकरोत्, श्वो गन्ता । परश्वः श्वःपरेऽहनि । परश्वो यास्यामि । अकामानुमतौ कामम् आदावनिच्छायां पश्चादङ्गीकारे- कामं करोमि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org