________________
३०
अनुसन्धान-६२
पुनर्भूयः । पुनरुक्तं, भूयोऽप्यागमनम् । सना सनात् सनन्नित्ये । सनातनः, सनादेव पठति, सनत्कुमारः । अथ नक्तं निश्युषा दोषास्वपि द्वयम् । नक्तन्तनः, उषातनः, दोषातनः । स्त्रीत्वे औषिकः दौषिकः । परं किन्तु । विद्वानसि परमहङ्कारी । बहिर्नाऽन्तः । बहिर्दामाद् वसति । प्रसह्याऽऽर्यहलं बलात् हठे ।।
प्रसह्य वित्तानि हरन्ति चौराः, आर्यहलं गृह्णाति, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ।
सनुतरन्तौं । सनुतश्चौरो गच्छति । पुरात्तस्स्तात् पुरोऽग्रतः । अग्रे नासीरधूलिधवलाः, पुरतः प्रयान्ति, पुरस्ताद् धावतीत्यादि । साम्प्रतं स्थाने युक्ते । न साम्प्रतं यत् स्त्री, स्थाने प्रश्नः कृतः । भू रसातले । भूर्वसन्ति सर्पाः ।
॥ इति स्वरादिगणः समाप्तः ॥छ।।
चाऽन्वाचयसमाहारेतरेतरसमुच्चये विनियोगे । अन्वाचयो मुख्यसिद्धावप्रधाननिष्पत्तिः- भिक्षामट गां चाऽऽनय । समाहारः संहतिः- पाणी च पादं च पाणिपादम् । इतरेतरयोगः संहन्यमानप्रधानः समूहः- प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ।
समुच्चये एकत्राऽनेकप्रत्ययः- गार्यो वात्स्यश्चाऽऽगतौ । पचति च पठति च चैत्रः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org