________________
ओगस्ट २०१३
-
विनियोगे - अहं च त्वं च गच्छावः ।
अन्यत्राऽपि तुल्ययोगितायां ध्यातश्चोपस्थितश्च ।
हेतौ - ग्रामश्च गन्तव्यः शीतं च वर्त्तते, शीतात् कथं गम्यत इत्यर्थः । अह हैतौ द्वौ निन्दायां च चकाराद् विनियोगे च ।
निन्दायां - स्वयमह रथेन याति, उपाध्यायं पदातिं गमयति ।
स्वयं ह ओदनं भुङ्क्ते, उपाध्यायं सक्तून् पाययति । विनियोगे- त्वमह ग्रामं गच्छ, अयमहाऽरण्यं गच्छतु । अर्चनेऽप्यह- अह माणवको भुङ्क्ते ।
वा विकल्पोपमाद्वन्द्वेषु ।
यवैर्वा व्रीहिभिर्वा यजते ।
उपमायां- जातां मन्ये शिशिरमथितां पद्मिनी वाऽन्यरूपाम् । द्वन्द्वे - उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम्, सा वा शम्भोस्तदीया वा मूत्तिर्जलमयी मम । न तृतीयेत्यर्थः । उञ् संबुद्धिवितर्कयोः ।
उ उत्तिष्ठ, क उ उपरि ।
एवं प्रकारनिर्देशोपदेशौपम्यनिश्चये इत्थमर्थेऽभ्युपगमे ।
प्रकारे - एवं कुरु । निर्देशे - एवं तावत् । उपदेशे - एवं पठ, औपम्येअग्निरेवं विप्रः, निश्चये - एवमेतत् कः सन्देहः । इत्थमर्थे - एवं वादिनि देवर्षौ । अभ्युपगमे - एवं कुर्म्मः ।
एवौपगम्या - ऽनियोगयोः नियोगे च ।
औपगम्ये श्रीस्तवैवाऽस्तु । अनियोगे अद्येव गच्छ, यदि रोचते । नियोगे - अद्यैव गच्छ ।
३१
-
अथ विषादा - se निन्दाशोकविस्मये ।
विषादे - हा रमणीनां गतः कालः । आत- हा हतोऽहमस्मि । निन्दायां- हा देवदत्त । शोके- हा प्रिय क्व गतः । विस्मये- हा लब्धं
पाटलिपुत्रम् ।
इव मुखम् ।
अल्पार्थोत्प्रेक्षयोर्वाक्यालङ्कारोपमयोरिव ।
कडार इवाऽयम्, लिम्पतीव तमोऽङ्गानि कथमिवैतद् भविष्यति, चन्द्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org