________________
३२
हुं वितर्के परिप्रश्नेऽनिच्छायां भर्त्सनभये ।
वितर्के - चैत्रो हुं मैत्रो हुम् । परिप्रश्ने - हुं स त्वं गृहीतः अनिच्छायांहुं मन्द । भर्त्सने हुं निर्लज्जाऽपसर, भये- हुं राक्षसोऽयम् । वाक्यालङ्कारजिज्ञासानियमानुनये खलु ।
वाक्यालङ्कारे- अथो खल्वाहुः । जिज्ञासायां - स खल्वधीते वेदम् । नियमे प्रवृत्तिसाराः खलु मादृशां धियः । अनुनये- न खलु न खलु मुग्धे साहसं कार्यमेतत् ।
अनुसन्धान-६२
हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः निश्चये च ।
हर्षे - हन्त जीविताः स्मः । अनुकम्पायां- पुत्रक हन्त ते धानाका: । वाक्यारम्भे- हन्त ते कथयिष्यामि । विषादे - हन्त हताः पाथिकगेहिन्यः । निश्चये च- हन्त गच्छामः । दाने च - हन्त कारः ।
अथ किं क्षेपे प्रश्नाल्पातिशयेषु च ।
क्षेपे - किमयमपि ब्राह्मणः । प्रश्ने- किं गतोऽसि । अल्पे- न किमप्यस्याऽस्ति । अतिशये- किमप्येष प्रगल्भते ।
नाम सम्भावनाक्रोधकुत्साङ्गीकारविस्मये प्रकाश्या - ऽलीकयोः । सम्भावनायां - कथं नाम स नाऽऽगमिष्यति । क्रोधे- को नाम मामयि क्षिपति । कुत्सायां- को नामाऽयं सवितुरुदयः । अङ्गीकारे - एवमस्तु नाम । विस्मये- अन्धो नाम पर्वतमारोक्ष्यति । प्राकाश्यालीकयोः- हिमालयो नाम नगाधिराजः । दष्टेव सा रोदिति नाम तन्वी ।
सूपत् कूपत् प्रश्नप्रशंसयोः ।
सूपदयं गायति । कूपदयं गायति ।
अभितः शीघ्रसाकल्यसंमुखोभयतोऽन्तिके ।
शीघ्रे - गच्छाऽभितः । साकल्ये - व्याप्नोत्यभितो राजा । संमुखेआपतन्तमभितोऽरिमपश्यत् । उभयतोऽन्तिके - अभितो ग्रामं वसति ।
इति हेतुपरामर्शप्रादुर्भावसमाप्तिषु एवमर्थे विवक्षायां विपर्यासप्रकारयोः ।
हेतौ- हन्तीति पलायते । उक्तपरामर्शे - इत्युक्तवन्तं परिरभ्य दोर्भ्याम्। वक्ष्यमाणपरामर्शे - विनिश्चितार्थामिति वाचमाददे । प्रादुर्भावे- इति पाणिनिः । समाप्तौ- पृथिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । एवमर्थेक्रमादमुं नारद इत्यबोधि सः । विवक्षायां - तदस्याऽत्र वाऽस्तीति मतुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org