________________
ओगस्ट - २०१३
३३
विपर्यासे- स्त्रियं पुरुष इत्ययमाह । प्रकारे- गौरश्वः पुरुषो हस्तीति जातिः ।
प्रश्नप्रत्युक्त्यनुज्ञेच्छानुनयामन्त्रणे ननु । ।
प्रश्ने- नन्वध्येष्यसे । प्रत्युक्तौ- अकार्षीः कटं चैत्र?, ननु करोमि भोः। अनुज्ञेच्छायां- नन्वादिश । अनुनयामन्त्रणे-- ननु चण्डि प्रसीद मे ।
आक्षेपे च विरोधोक्तौ ननु च । आक्षेपे च- ननु किमर्थमागतोऽसि । विरोधोक्तौ- ननु च कः शब्दार्थः । आः कोप-पीडयोः । आः पाप किं त्वया कृतम् । आः कष्टं वर्त्तते । उत पक्षान्तरे प्रश्ने बाढाथै स्यात् समुच्चये ।
पक्षान्तरे- एकमेव वरं पुंसामुत राज्यमुताऽऽ श्रमः । प्रश्ने- उत दण्डः पतिष्यति । बाढार्थे- उत कुर्यात्, बाढं करिष्यतीत्यर्थः । समुच्चये- उत भीम उताऽर्जुनः ।
बताऽनुकम्पासन्तोषखेदामन्त्रणविस्मये ।
अनुकम्पायां- बत निःस्वोऽसि । सन्तोषे- बत प्राप्त सीता । खेदेअहो बत महत्कष्टम् । आमन्त्रणे- बत वितरत तोयं तोयवाहा नितान्तम् । विस्मये- अहो बताऽसि स्पृहणीयवीर्यः ।।
यावत् तावच्च साकल्येऽवधौ मानेऽवधारणे । साकल्ये- यावत् कार्यं तावत् कुर्वित्यर्थः । अवधौ- यावद् गङ्गा तावत् तिष्ठ । माने- यावद् दत्तं तावद् भुक्तम् । अवधारणे- यावदमत्रं ब्राह्मणानामन्त्रयस्व ।
यथा स्याद् योग्यतावीप्सापदार्थानतिवृत्तिषु क्रमे ।
योग्यतायां- यथारूपं चेष्टते । वीप्सायां- यथावृद्धं भोजय । पदार्थानतिवृतौ- यथाशक्ति पठ, यथाबलम् । क्रमे- यथाज्येष्ठं प्रवेशय, ज्येष्ठानुक्रमेणेत्यर्थः ।
तथाऽभ्युपगमे निदर्शनसमुच्चये ।
अभ्युपगमे- स तथेति प्रतिज्ञाय । निदर्शने- तथा हि सर्वे तस्याऽऽसन् पराबैंकफला गुणाः । समुच्चये- चैत्रो व्रजतु तथा मैत्रः ।
पुरा भविष्यदासन्ने चिरातीत-प्रबन्धयोः ।।
भविष्यदासन्ने- गच्छ पुरा देवो वर्षति । चिरातीते- पुरा भवः पुरातनः कम्बलः । प्रबन्धे- उपाध्यायेन स्म पुराऽधीयते, अविरलमपाठीत्यर्थः ।
तथापगम- स तथेति प्रतिशत व्रजतु तथा मैत्रः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org