________________
अनुसन्धान-६२
अहहेत्यद्भुते खेदे । अद्भुते- अहह प्रज्ञाप्रकर्षो राज्ञः । खेदे- अहह हता विरहिणी बाला । ही विस्मय-विषादयोः । विस्मये- हतविधिललितानां ही विचित्रो विपाकः । विषादे- शतकृत्वोऽप्यधीयाना ही न विद्मो जडा वयम् । शश्वन्नित्ये सहार्थे च । नित्ये- शश्वद् वैरम् । सहाथै- शश्वद् भुञ्जाते । नूनं निश्चयतर्कयोः । । निश्चये- नूनं हन्ताऽस्मि रावणम् । तर्के- नूनं शरत्फुल्ला हि काशाः । अस्त्वसूयाभ्युपगमे । असूयापूर्वकाभ्युपगमे- एवमस्तु, को दोषः । हि हेतौ । अग्निरत्र धूमो हि दृश्यते । अङ्ग पूजने । अङ्ग स्म विद्वन् माणवकमध्यापय । निषेधस्फुटामन्त्रणेष्वप्येते । अथाऽथो मङ्गलारम्भेऽनन्तरे प्रश्नकात्य॑योः समुच्चयेऽधिकारान्वादेशयोश्च ।
मङ्गले- अथ परस्मैपदानि । आरम्भे- अथ शब्दानुशासनम् । अनन्तरेस्नातोऽथ भुङ्क्ते। प्रश्ने- अथ शक्नोषि भोक्तुम् । कात्स्न्र्ये- अथाऽतो धर्म व्याख्यास्यामः । समुच्चये- भीमोऽथाऽर्जुन । अधिकारे- अथ समासः । अन्वादेशेएतं व्याकरणमध्यापय, अथैनं छन्दोऽपि । एवमथो शब्दोऽप्युदाहार्यः ।
अद्भुतेऽप्यहो । अहो आश्चर्यम् । सम्बोधनेऽपि- अहो चैत्र ! । नूत्तरोत्प्रेक्षयोः । उत्तरे- अकार्षीः कटं चैत्र, न करोमि । उत्प्रेक्षायाम्- रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org