SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ओगस्ट २०१३ - प्रश्नवितर्के स्वित् चकारान्नु । प्रश्ने- कः स्विदेकाकी चरति । वितर्के- अधः स्विदासीदुपरि स्विदासीत् । नुप्रश्ने - को नु वाचमीरयत्यन्तरिक्षे । नु वितर्के - अहिर्नु रज्जुर्नु । भर्त्सने क्विद् । क्वित् किं कितव कदर्योऽसि । पादपूरणेऽपि क्वित् तदुपयुज्यते । चिदप्यर्थसंमत्योरसाकल्योपमानयोः । I अप्यर्थे न किञ्चिद् ब्रवीति । संमतौ - कुल्माषांश्चिदाहर । असाकल्ये - किञ्चित् प्रयच्छति । उपमाने - अग्निश्चिद् भायात् । रै दाना - ऽनादरे । रै करोति, दानं ददातीत्यर्थः । त्वं ह रै किं करिष्यसि । यच्च यत्र चाऽनवकल्पने आश्चर्यामर्षगर्हे अनवकल्पने- न च कल्पयामि । आश्चर्ये - न मर्षयामि । गर्हे - यच्च तत्र भवान् वृषलं याजयेत्, यत्र तत्र भवान् वृषलं याजयेत् । अर्चा-ऽऽश्चर्ययोः पश्य पश्यत । पश्य गुरुर्भुङ्क्ते, पश्य शिशुरपि विद्वान् । एवं पश्यत । अस्यस्मि त्वमहं युष्मदस्मदर्थानुवादयोः । वेत्स्यसि पार्थिवस्त्वमसि सत्यमभ्यधाः । तितीर्षुर्दुस्तरं मोहादुडुपेनाऽस्मि सागरम् । न मृतो भागीरथ्यां मृतोऽस्म्यहं प्राप्य मन्दभागी रथ्याम् । अविमर्शेऽपि सहसा । सहसा विदधीत न क्रियाम् । अपिशब्दात् कस्मादर्थेऽपि - दिव: प्रसूनं सहसा पपात । स्मस्फुटेऽपि । म करिष्यति । अपिशब्दात् पादपूरणेऽपि इति स्म पूर्वे मुनयो बभाषिरे । Jain Education International ३५ For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy