SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६२ इतिहाऽऽगमे लोकवादे । इतिह स्मोपाध्यायो ब्रूते । लोकवादे- इतिह चकार । ननु त्वेवमेववाऽवधारणे । नन्वद्य गच्छामः । भीमस्तु पाण्डवानां रौद्रः । आहार्यमेवं मृगनाभिपत्रम् । महेश्वरस्त्र्यम्बक एव नाऽपरः । अशरीरं वा वसन्तं प्रियाप्रियौ न स्पृशतः । सह साकल्यसादृश्ययौगपद्यसमृद्धिषु विद्यमाने च सम्बन्धे तुल्ययोगे क्रियादिभिः । साकल्ये- सतृणमभ्यवहरति । सादृश्ये- सव्रतमनयोः । यौगपद्येसचक्रं धेहि । समृद्धौ- समद्रम् । विद्यमाने च सम्बन्धे- सलोमकः । तुल्ययोगे क्रियादिभि:- सह पुत्रेणाऽऽगतः स्थूलो गोमान् वा । किङ्किलेति पदं क्रोधा-ऽश्रद्धयोः । क्रुद्धयामि, न श्रद्धे, किङ्किल तत्र भवान् वृषलं याजयति । अरुचौ किल संभावनागमालीकहेतुन्यक्करणेषु च । अरुचौ- एवं किल केचिद् वदन्ति । संभावनायां- पार्थः किल विजेष्यते कुरून् । आगमे- जघान कंसं किल वासुदेवः । अलीके- गोत्रस्खलितं किलाऽश्रुतं कृत्वा । हेतौ- स किल कविरेवमुक्तवान् । न्यक्करणे- त्वं किल योत्स्यसे । अलं भूषणपर्याप्तिशक्तिषु प्रतिषेधने । भूषणे- अलङ्कारः । पर्याप्तौ-- अलमस्त्यस्य धनम्, बबित्यर्थः । शक्तौ- अलं मल्लो मल्लाय । प्रतिषेधने- अलं कृत्वा । आ स्मृति-वाक्ययोः । स्मृतौ- आ एवं किल तत् । वाक्यपूरणे पूर्वोक्तस्याऽन्यथात्वे द्योत्येआ एवं नु मन्यसे । पूर्वं नैवममंस्थाः , अद्य तु मन्यस इत्यर्थः । आमा-ऽऽम् प्रत्युक्ताववधारणे । प्रत्युक्तौ- कटं कुरु, आम करोमि, आं करोमि । अवधारणे- गच्छाम्याम, आं गच्छामि । अथैकार्थाः; सुकं शैष्ये । सुकं गच्छ । कुम् प्रश्ने । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy