Book Title: Anusandhan 2013 09 SrNo 62
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 49
________________ अनुसन्धान-६२ सजः सहार्थे पञ्चाऽमी दाने देवहविर्तुतौ । श्रौषट् वौषट् वषट् स्वाहा तृप्तिप्रीत्योरपि स्वधा ।।६।। प्राकाश्ये प्रादुराविश्चोर्याद्याः कृभ्वस्तिभिर्युजि । श्रद्धानशीघ्रयोः श्रद्धाकृभ्यां क्राहनने पशू ।।७।। कारिका वृत्तिमर्यादाक्रियायत्नेष्वयं गणः । खाट पूत् फूत् थू हुमित्यादि भूषणाऽलं सदादरे ॥८॥ अनादरे सन्निषेधविद्यमानेतरेषु च । अग्रहानुपदेशेऽन्तरदोऽर्हत्यवैरिण:(?) ॥९॥ गतो न मूषिकां श्येनोऽदः कृत्ये तत्करिष्यति । इत्येवं चिन्तने चान्यकथनेऽदस्त्यदादिषु ॥१०॥ घ्नादिक्कणे मनस्तप्तौ पबयः पिबति यप्परम् । अर्थोऽस्य तावत्पिबति यावत्तृप्तः पुरोव्ययम् ॥११॥ अस्तं च कृगमादिग्न शक्तौऽङ्गतेऽन्तिमात् । गत्यर्थवदिनाच्छामि दृढार्थेऽर्थाद्वजानतु ।।१२।। अच्छ कृत्वागतोनाच्छं कृत्वोदकमनव्ययम् । भूधाञादिक्तिरोऽन्तौँ तिर्यगर्थेन च कृञा ॥१३।। तिरोभूत्वा स्थितः काष्ठं तिरः कृत्वा गतोऽत्र न । मध्ये पदे निवचने मनस्युरसि चाव्ययम् ॥१४|| वात्याधान उपश्लेषे समसौमितृणादिवत् । वाचं नियम्य निश्चित्य द्विरित्यर्थोऽन्तिमत्रये ॥१५।। मध्ये कृत्वा धान्यराशिं स्थितो न न च हस्तिनः । पदे कृत्वा शिरः शेतेऽत्ताभ्यां कृत्वा सुखं गतः ॥१६।। पाणिं शेते नडेः कृत्वा वाचं तिष्ठत्यनव्ययम् । उपाजेऽन्वागे च बलाधाने दुर्बलभग्नयोः ॥१७॥ स्वाम्येधि नतमुद्दिश्य चै ग्रामेधिकृत्य वा । साक्षात्प्रभृतयश्चार्थे साक्षात्प्रत्यक्षतुल्ययोः ॥१८।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138