SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ओगस्ट - २०१३ ५भूभृत्कोटियुतो न भूभृदयुतेनाऽसौ ततो जीयते यत्स्थाऽनन्तरमा महाम्बुजसमा किं स्यात् सदा सत्तमा । यन्मध्यं न शतेन कोऽपि लभते दत्तेन वित्तेन वा तं श्रीमण्डपदुर्गमिच्छति न को गन्तुं धनप्राप्तये ? ॥५॥ यत्र स्यादजितः स्वामी, तथाऽजितबलान्वितः । लघुशत्रुञ्जयेत्याख्या, तस्य स्थानस्य तूचिता ॥६॥ 'विश्वोद्भवा कीर्तिवल्ली, सुवंशान् प्राप्य 'चोर्ध्वगा । मण्डपे यत् स्थिता भाति, तद्युक्तं गुणशालिनि ॥७॥ १ चित्रं सङ्ग्रामगोत्रोत्था, ११व्यक्तं सदसि मार्गणैः । मिलिता फलिता जाता, विश्वव्यापिन्यसौ च यत् ।।८।। १२दानं श्रीनरदेवमेवमवदद् देवांशिनो ये पुराऽभूवन् भूरि १२नराः कुदानवदरात् ते स्वर्गलोकं गताः । तेनाऽऽधारविवर्जितं समभवं तस्याऽतिहर्ता भवांस्तस्मादुद्धर मां यतस्त्वमसि भो ! प्रत्यक्षदेवोऽधुना ॥९॥ "तच्छ्रुत्वा स जगौ सगौरवमदो भूयात् परं प्रौढतां नीतं त्वं किल यासि तं तु तदवग् वंशेऽपि तेऽहं स्थिरम् । नोक्तं मे यदि मन्यसे तव मतं शीलं तदा साक्षि सत् तद्वाक्यात् स्वगृहे निवासितमिदं द्वेधाऽपि लक्ष्मीप्रदम् ॥१०॥ १५सोऽथ स्वार्थकृते तदर्थ निवहे प्रौढं ददात्यन्वहं शीलं रक्षति किन्त्वदः प्रतिभुवं तस्माच्च तेषां गृहे । १७नो तिष्ठेत् पुनरेति १“चाऽस्य निलये वाणीनिबद्धं सदा येनाऽद्याऽपि तदन्वये गतभये सन्दृश्यते तद्वयम् ॥११॥ त्रिभिर्विशेषकम् ॥ ५. मु. प्रश. श्लो. ५८ ७. 'जेतुं' इति मु. प्रश. । ९. 'वृद्धिभाग्' इति मु. प्रश. । ११. 'शीघ्रम्' इति मु. प्रश. । १३. 'तराः' इति मु. प्रश. । १५. मु. प्रश. श्लो. ६८ १७. 'तत्तिष्ठेत्' इति मु. प्रश. । ६. 'समाब्जचरमा' इति मु. प्रश. । ८. मु. प्रश. श्लो. ७२ १०. मु. प्रश. श्लो. ७३ १२. मु. प्रश. श्लो. ६६ १४. मु. प्रश. श्लो. ६७ १६. 'ततये' इति मु.प्रश. । १८. 'चाऽस्य' इति मु. प्रश. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy