________________
अनुसन्धान-६२
तेथी ज आवा श्रावकोना गुणथी आकर्षाईने आ 'श्रीसङ्घप्रशस्ति:'नी रचना थई हशे.
___ पाटण-हेमचन्द्राचार्य जैन ज्ञानमन्दिरमा 'श्रीमण्डपीयसङ्घप्रशस्ति'ना नामे सचवायेली २ पानानी आ प्रतना अक्षर सुवाच्य छे. प्रत आपवा बदल भण्डारना व्यवस्थापकोना आभार सह श्रीनेमीश्वरजिनप्रासादप्रशस्ति पुस्तकनी नकल अमने आपनार पू. मुनिराज श्रीहेमवल्लभविजयजी म.नो पण आभार मानीये तेटलो ओछो छे.
श्रीमण्डपीयसङ्घप्रशस्तिः ॥ ६० ॥ ॐ नमः श्रीवीतरागाय ।।
स्वस्तिश्रीविजयोद्वहः सुविदितः श्यामाङ्गजानाप्तरुक् भव्याङ्गीकृतवर्मभूपतिमतो ब्रह्माधिकः षण्मुखात् । वर्यो यो जितशत्रुविश्रुतमहायक्षान्वितस्वान्तिकः; कुर्याद् वो विमलेश्वरोजि(रोऽजि)तबलोपेतो द्वितीयो जिनः ॥१॥ दृष्ट्वा यामचलां धरामृणभयाज्जीर्णाम्बराच्छादितां चक्रे यो विभयां रतां च बुभुजे सा रत्नगर्भाऽभवत् । सूतैषाऽथ वसुन्धराऽजनि सुतः सम्पत्सराख्यस्तदा विश्वेऽद्याऽपि जयी स यत्र समभूत् श्रीविक्रमार्को नृपः ॥२॥
ये भोजप्रमुखाः सुधारुचिमुखाः भूपाः सुरूपाः पुरा दानोदारतरा बभूवुरदरा विद्वद्वराः सुन्दराः । ये चाऽन्येऽपि जना घना गुरुधनास्ते यत्र सर्वेऽधुना तत् सन् मालवमण्डलं विजयते विश्वावधूकुण्डलम् ॥३॥ मालवोऽपि जनाधारो, दुष्कालादौ "हि यद् भवेत् । हेतुं धाराधराम्भोज-शस्यश्रियमवेहि तम् ।।४।।
पंन्यास लाभसागरगणिप्रवरेण संशोधिता, आगमोद्धारकग्रन्थमालासंस्थानेन प्रकाशिता 'श्री ज्ञानसागरसूरिकृता श्रीसङ्ग्रामकारितश्रीनेमीश्वरजिनप्रासादप्रशस्तिः [संज्ञा - मु.प्रश.] १. मु. प्रश श्लो. ५२, २. 'सु' इति मु. प्रश. । ३. मु. प्रश. श्लो. ५५, ४. 'ही' इति मु. प्रश. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org