________________
अनुसन्धान-६२
सत्रागारबाज सुधीज सपादलक्ष, बासमुत्कलमत्र व पारं
१ यदुष्काले कराले नरपतिरिह नो पाति मान् कुमृत्योविक्रीणीयात् पिताऽपि स्वसुतमसुकृते २'चोर्वरा रङ्करूपा । सत्रागाराणि तस्मिन् प्रकटतरमसौ मण्डयित्वा ह्यरक्षद् भूस्पृक्बीजं सुधीजं प्रति दिननृपतिस्तेन जज्ञेऽस्य २३नाम ॥१२॥ २४भ्रात्राऽस्य धन्येन सपादलक्षं, बद्धं जनं चन्द्रपुरीसमुत्थम् । धन्येन यन्मोचयता धनेन, चक्रे जगन्मुत्कलमत्र चित्रम् ॥१३|| २६ श्रीसङ्ग्रामेऽभिरामे विमलगुणगणा येऽत्र तेषां न पारं याति ब्रह्मापि चैकोऽस्त्यनणुरपगुणो यत्पितुः कीर्तिभीरोः । स्वीयां तामेकशूरां त्रिभुवनभवने वासयत्यादरेणैतस्याऽयं वा न दोषः सुत इह लभते पैतृकं येन सर्वम् ॥१४॥ देवप्रसादान् मम वित्तमस्ति, तस्माद् गुरुत्वं किल सर्ववर्णे । इतीव सञ्चिन्त्य स सूत्रधारै-स्तमेव तस्याऽपि चकार यत् कृती ॥१५॥ २७निजजायासहजलदे-श्रेयोर्थं चाऽत्र विमलजिनचैत्ये । देवकुलिका तथैका, येनोच्चैः कारिता कृतिना ॥१६।। जिनप्रतिष्ठा प्रवरां मुहूर्ते, योऽकारयत् स्वस्य पुनः सदा ताम् । प्रवर्तयेत् तत् किमु सर्वकालं, सत्कर्मकर्तुः सुदिनं भवेद् वा ॥१७॥ २८/२"सत्पुण्यवृत्तार्थमसौ सुवर्ण-वारं सतां राति सदाऽनिवारम् । ते लब्धवर्णाः पुनरस्य तारं, सुश्लोकमाहुः कथमर्थसारम् ॥१८॥ ३°आप्ताङ्गानि सुवीधैः, सोपाङ्गानि प्रपूर्य सः । गुरुन् ३५दर्शयते तानि युक्तमर्थवतोऽस्य तत् ॥१९॥ ३२सुव्यापारेऽप्यसौ धर्मं, यद्दधाति मुदाशये ।
३२वेलायां तच्च चित्रं नो, सङ्ग्रामस्येदृशो विधिः ॥२०॥ १९. मु. प्रश. श्लो. ६४
२०. 'मसुकृतेः' इति मु. प्रश. । २१. 'वोर्वरा' इति मु. प्रश. ।
२२. 'दिननृपबिरुदं' इति मु. प्रश. । २३. 'लोके' इति मु. प्रश. ।
२४. मु. प्रश. श्लो. ७१ २५. 'समत्थं' इति मु. फश. ।
२६. मु. प्रश. श्लो. ८७ २७. 'तेजजाया०' इति मु. प्रश. । २८. मु. प्रश. श्लो. ८६ २९. 'यत्' इति मु. प्रश. ।
३०. मु. प्रश. श्लो. ३१. 'यद् दर्शयेत्' इति मु. प्रश. । ३२. मु. प्रश. श्लो. ९१ ३३. 'सद्गुणं' इति मु. प्रश. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org