Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 260
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अङ्कः] अनर्घराघवम् २५३ चेदानी कालकूटोपदिग्धैरिव कण्ठध्वनिभिरेव मूर्छयतो भुवनानि भैरवस्य स्मरति समयमद्य परमेष्ठी। ___ (पुनर्नेपथ्ये ।) दिव्यास्त्रैर्भूर्भुवःस्वस्त्रितयडमरणोड्डामरैर्योधयित्वा लूनोत्क्षिप्तैः शिरोभिर्दशभिरभिनभो दर्शितैकादशार्कः । काकुत्स्थेनावकीर्णो निजविशिखशिखायोगपीठोपहूत ब्रह्मास्त्रेणाधिशेते रजनिचरपतेवरिशय्यां कबन्धः ।। ७७ ।। उभौ-(श्रुला सहर्षसंभ्रममूर्ध्वमवलोक्य सविस्मयमन्योन्यम् ।) पश्य पश्य प्रलयकालकरालकालानलज्वालापुञ्जपिञ्जराणि रावणशिरांसि । (सत्वरमुपमृत्य चाधस्तात्पश्यतः।) हेमाङ्गदः-(सकरुणम् ।) हा महावीरप्रकाण्ड लङ्केश्वर, पैर्यवसितोऽसि । लाहलः श्रूयत इति भावः । कपटेन भूतो यः कण्ठीरवः सिंह एतादृशो वैकुण्ठो नारायणो नरसिंहरूपी तस्य कण्ठानिर्गतो यः कठोरो महान्कोलाहलस्तद्वत्काहलः कटुध्वनिः । देशी शब्दः । भयानको वा । प्रजाकोषो ब्रह्माण्डं तस्य भङ्गो नाशः। अपर्वण्यकाले । प्रलयं विनापीत्यर्थः । प्रक्रमत आरभते । नूनं चेति । नूनं निश्चितमद्य परमेष्टी ब्रह्मा सभयं यथा स्यादेवं भैरवस्य स्मरति । कालभैरवं महेशं स्मरतीत्यर्थः । 'अधीगर्थदयेशां कर्मणि' इति षष्टी । कालकूटेन विषेणोपदिग्धैर्लिप्तैरिव कण्ठध्वनिभिर्भुवनानि मूर्छयतो मूछौँ नयतः । दिव्यास्त्रैरिति । रजनिचरपते रावणस्य कबन्धः शिरःशून्यशरीरं वीरशय्यां समराङ्गणमधिशेते । तत्र स्वपितीत्यर्थः। काकुत्स्थेन रामेणावकीर्णः क्षिप्तः । कीदृशेन । निजविशिखशिखा एव खबाणाग्रभाग एव योगपीठो देवपूजासनं तस्मिन्नुपहूतमाहृतं ब्रह्मास्त्रं येन तेन । यद्वा ब्रह्मास्त्रेणेति करणे तृतीया । दिव्यास्त्रैर्योधयित्वा लूनैश्छिन्नैः । अर्थाद्दिव्यास्त्रैरेव । अनन्तरमुत्क्षिप्तैरूवं नीतैर्दशभिः शिरोभिरभिनभो नभसि दर्शिता एकादशार्काः सूर्या येन सः। दश रावणशिरांसि, एकः प्रकृतः सूर्यः, एभिरेकादशाको उदिता इति भावः । भूः पृथिवी, भुवोऽन्तरिक्षम्, खः खर्गः, एतत्रितयस्य त्रिभुवनस्य डमरणं चमत्कारस्तदर्थमुड्डामरैरुत्क्षिप्तरूवं नीतैः । केचित्त डमरेण विनाशेनोड्डामरैर्भयानकैरित्यर्थः । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकले. वरे' इत्यमरः । 'करालो भीषणेऽन्यवत्' इत्यमरः । कालानलो रौद्राग्निस्तज्ज्वालापुञ्जव. त्पिञ्जराणि पिङ्गलानि । हे महावीरप्रकाण्ड प्रशस्तमहावीर । 'प्रकाण्डमुद्धतल्लजौ । प्रशस्त १. 'सविमर्षम्'. २. 'च' इति पुस्तकान्तरे नास्ति. ३. 'प्रवसितोऽसि'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331